Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 140

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

सुमङ्गलौ दन्तौ।

१-३ अथर्वा। ब्रह्मणस्पतिः, दन्ताः। (अनुष्टुप् १) १ उरोबृहती,
२ उपरिष्टाज्ज्योतिष्मती त्रिषटुप्, ३ आस्तारपङ्क्तिः।
यौ व्या॒घ्रवव॑रूढौ जिघ॑त्सतः पि॒तरं॑ मा॒तरं॑ च ।
यौ दन्तौ ब्रह्मणस्पते शि॒वौ कृ॑णु जातवेदः ॥१॥
व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्।
ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥२॥
उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑ ।
अ॒न्यत्र॑ वां घो॒रं त॒न्वः॑१ परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥३॥