Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 019

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पावमानम्।

१-३ शन्तातिः। चन्द्रमाः, १ देवजनाः, मनवः विश्वा भूतानि, पवमानः, २ पवमानः, ३ सविता। गायत्री, १ अनुष्टुप्।
पु॒नन्तु॑ मा देवज॒नाः पु॒नन्तु॒ मन॑वो धि॒या।
पु॒नन्तु॒ विश्वा॑ भू॒तानि॒ पव॑मानः पुनातु मा ॥१॥
पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।
अथो॑ अरि॒ष्टता॑तये ॥२॥
उ॒भाभ्यां॑ देव सवितः प॒वित्रे॑ण स॒वेन॑ च ।
अ॒स्मान् पु॑नीहि॒ चक्ष॑से ॥३॥