Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 023

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अपां भैषज्यम्।

१-३ शन्तातिः। आपः। १ अनुष्टुप्, २ त्रिपदा गायत्री, ३ परोष्णिक्।
स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑ ।
वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥१॥
ओता॒ आपः॑ कर्म॒ण्याऽमु॒ञ्चन्त्वि॒तः प्रणी॑तये ।
स॒द्यः कृ॑ण्व॒न्त्वेत॑वे ॥२॥
दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्तु॒ मानु॑षाः ।
शं नो॑ भवन्त्व॒प ओष॑धीः शि॒वाः ॥३॥