Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 058

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

यशः प्राप्तिः।

१-३ अथर्वा (यशस्कामः)। बृहस्पतिः, १-२ इन्द्रः, द्यावापृथिवि, सविता,
३ अग्निः, इन्द्रः, सोमः। १ जगती, २ प्रस्तारपङ्क्तिः, ३ अनुष्टुप्।

य॒शसं॒ मेन्द्रो॑ म॒घवान् कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे।
य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म्॥१॥
यथेन्द्रो॒ द्यावा॑पृथि॒व्योर्यश॑स्वा॒न् यथाप॒ ओष॑धीषु॒ यश॑स्वतीः ।
ए॒वा विश्वे॑षु दे॒वेषु॑ व॒यं सर्वे॑षु य॒शसः॑ स्याम ॥२॥
य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत ।
य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि य॒शस्त॑मः ॥३॥