Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 011

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पुंसवनम्।

१-३ प्रजापतिः। रेतः, ३ प्रजापतिः, अनुमतिः, सिनीवाली। अनुष्टुप्।
श॒मीम॑श्व॒त्थ आरू॑ढ॒स्तत्र॑ पुं॒सु॑व॑नं कृ॒तम्।
तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् स्त्री॒ष्वा भ॑रामसि ॥१॥
पुं॒सि वै रेतो॑ भवति॒ तत् स्त्रि॒यामनु॑ षिच्यते ।
तद् वै पु॒त्रस्य॒ वेद॑नं॒ तत् प्र॒जाप॑तिरब्रवीत्॥२॥
प्र॒जाप॑ति॒रनु॑मतिः सिनीवा॒ल्यऽचीक्लृपत्।
स्त्रषू॑यम॒न्यत्र॒ दध॒त् पुंमां॑समु दधदि॒ह॥३॥