Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 115

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पापमोचनम्।

१-३ ब्रह्मा। विश्वे देवाः। अनुष्टुप्।
यद् वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्।
यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥१॥
यदि॒ जाग्र॒द् यदि॒ स्वप॒न्नेन॑ एन॒स्योऽक॑रम्।
भू॒तं मा॒ तस्मा॒द् भव्यं॑ च द्रुप॒दादि॑व मुञ्चताम्॥२॥
द्रु॒प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव ।
पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ॥३॥