Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 032

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

यातुधानक्षयणम्।

(१-३) १-२ चातनः, ३ अथर्वा। १ अग्निः, २ रुद्रः, ३ मित्रावरुणौ। त्रिष्टुप्, २ प्रस्तारपङ्क्तिः।
अ॒न्त॒र्दा॒वे जु॑हुता॒ स्वे॒३तद् या॑तुधान॒क्षय॑णं घृ॒तेन॑ ।
आ॒राद् रक्षां॑सि॒ प्रति॑ दह॒ त्वम॑ग्ने॒ न नो॑ गृ॒हाणा॒मुप॑ तीतपासि ॥१॥
रु॒द्रो वो॑ ग्री॒वा अश॑रैत् पिशाचाः पृ॒ष्टीर्वोऽपि॑ शृणातु यातुधानाः ।
वी॒रुद् वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत्॥२॥
अभ॑यं मित्रावरुणावि॒हास्तु॑ नो॒ऽर्चिषा॒त्त्रिणो॑ नुदतं प्र॒तीचः॑ ।
मा ज्ञा॒तारं॒ मा प्र॑ति॒ष्ठां वि॑दन्त मि॒थो वि॑घ्ना॒ना उप॑ यन्तु मृ॒त्युम्॥३॥
<