SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 035

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

दीर्घायुःप्राप्तिः।

१-४ अथर्वा(आयुष्कामः)। हिरण्यम्, इन्द्राग्नी, विश्वे देवाः। जगती, ४ अनुष्टुब्गर्भा चतुष्पदा त्रिष्टुप्।
यदाब॑ध्नन् दाक्षाय॒णा हिर॑ण्यं श॒तानी॑काय सुमन॒स्यमा॑नाः ।
तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥१॥
नैनं॒ रक्षां॑सि॒ न पि॑शा॒चाः स॑हन्ते दे॒वाना॒मोजः॑ प्रथम॒जं ह्ये॒तत्।
यो बिभ॑र्ति दाक्षाय॒णं हिर॑ण्यं॒ स जी॒वेषु॑ कृणुते दी॒र्घमायुः॑ ॥२॥
अ॒पां तेजो॒ ज्योति॒रोजो॒ बलं॑ च॒ वन॒स्पती॑नामु॒त वी॒र्याऽणि ।
इन्द्र॑ इवेन्द्रि॒याण्यधि॑ धारयामो अ॒स्मिन् तद् दक्ष॑माणो बिभर॒द्धिर॑ण्यम्॥३॥
समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि ।
इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥४॥