SELECT KANDA

SELECT SUKTA OF KANDA 01

Atharvaveda Shaunaka Samhita – Kanda 01 Sukta 029

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

राष्ट्राभिवर्धनम्, सपत्नक्षयणं च।

१-६ वसिष्ठः। ब्रह्मणस्पतिः, अभीवर्तमणिः। अनुष्टुप्।
अ॒भी॒व॒र्तेन॑ म॒णिना॒ येनेन्द्रो॑ अभिवावृ॒धे॑।
तेना॒स्मान् ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्धय ॥१॥
अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः ।
अभि पृ॑त॒न्यन्तं॑ तिष्ठा॒भि यो नो॑ दुर॒स्यति॑ ॥२॥
अ॒भि त्वा॑ दे॒वः स॑वि॒ताभि सोमो॑ अवीवृधत्।
अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि ॥३॥
अ॒भी॒व॒र्तो अ॑भिभ॒वः स॑पत्न॒क्षय॑णो म॒णिः ।
रा॒ष्ट्राय॒ मह्यं॑ बध्यतां स॒पत्ने॑भ्यः परा॒भुवे॑ ॥४॥
उद॒सौ सूर्यो॑ अगा॒दुदि॒दं मा॑म॒कं वचः॑ ।
यथा॒हं श॑त्रु॒होऽसा॑न्यसपत्नः सपत्नहा॑॥५॥
स॒प॒त्न॒क्षय॑णो॒ वृषा॒भिरा॑ष्ट्रो विषास॒हिः ।
यथा॒हमे॒षां वी॒राणां॑ वि॒राजा॑नि॒ जन॑स्य च ॥६॥