Atharvaveda Shaunaka Samhita – Kanda 07 Sukta 064

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पापमोचनम्।

१-२ यमः। आपः, अग्निः, निर्ऋतिः। १ भुरिगनुष्टुप्, २ न्यङ्कुसारिणी बृहती।
इ॒दं यत् कृ॒ष्णः श॒कुनि॑रभिनि॒ष्पत॒न्नपी॑पतत्।
आपो॑ मा॒ तस्मा॒त् सर्व॑स्माद् दुरि॒तात् पा॒न्त्वंह॑सः ॥१॥
इ॒दं यत् कृ॒ष्णः श॒कुनि॑र॒वामृ॑क्षन्निरृते ते॒ मुखे॑न ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु ॥२॥