Rigveda – Shakala Samhita – Mandala 05 Sukta 052

A
A+
१७ श्यावाश्व आत्रेयः। मरुतः। अनुष्टुप्, ६, १६-१७ पङ्क्तिः।
प्र श्या॑वाश्व धृष्णु॒यार्चा॑ म॒रुद्भि॒ॠक्व॑भिः ।
ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद॑न्ति य॒ज्ञिया॑: ॥१॥
ते हि स्थि॒रस्य॒ शव॑स॒: सखा॑य॒: सन्ति॑ धृष्णु॒या ।
ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पान्ति॒ शश्व॑तः ॥२॥
ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः ।
म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥३॥
म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या ।
विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं॑ रि॒षः ॥४॥
अर्ह॑न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः ।
प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्य॑: ॥५॥
आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत ।
अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥६॥
ये वा॑वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ ।
वृ॒जने॑ वा न॒दीनां॑ स॒धस्थे॑ वा म॒हो दि॒वः ॥७॥
शर्धो॒ मारु॑त॒मुच्छं॑स स॒त्यश॑वस॒मृभ्व॑सम् ।
उ॒त स्म॒ ते शु॒भे नर॒: प्र स्य॒न्द्रा यु॑जत॒ त्मना॑ ॥८॥
उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शु॒न्ध्यव॑: ।
उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिन्द॒न्त्योज॑सा ॥९॥
आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः ।
ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥१०॥
अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते ।
अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥११॥
छ॒न्द॒:स्तुभ॑: कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।
ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसन् दृ॒शि त्वि॒षे ॥१२॥
य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वय॒: सन्ति॑ वे॒धस॑: ।
तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥१३॥
अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ ।
दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥१४॥
नू म॑न्वा॒न ए॑षां दे॒वाँ अच्छा॒ न व॒क्षणा॑ ।
दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभि॑: ॥१५॥
प्र ये मे॑ बन्ध्वे॒षे गां वोच॑न्त सू॒रय॒: पृश्निं॑ वोचन्त मा॒तर॑म् ।
अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चन्त॒ शिक्व॑सः ॥१६॥
स॒प्त मे॑ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः ।
य॒मुना॑या॒मधि॑ श्रु॒तमुद् राधो॒ गव्यं॑ मृजे॒ नि राधो॒ अश्व्यं॑ मृजे ॥१७॥