Rigveda – Shakala Samhita – Mandala 05 Sukta 055

A
A+
१० श्यावाश्व आत्रेयः। मरुतः। जगती, १० त्रिष्टुप् ।
प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद् वयो॑ दधिरे रु॒क्मव॑क्षसः ।
ईय॑न्ते॒ अश्वै॑: सु॒यमे॑भिरा॒शुभि॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥१॥
स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा॑जथ ।
उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥२॥
सा॒कं जा॒ताः सु॒भ्व॑: सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नर॑: ।
वि॒रो॒किण॒: सूर्य॑स्येव र॒श्मय॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥३॥
आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् ।
उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥४॥
उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः ।
न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥५॥
यदश्वा॑न् धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न् प्रत्यत्काँ॒ अमु॑ग्ध्वम् ।
विश्वा॒ इत् स्पृधो॑ मरुतो॒ व्य॑स्यथ॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥६॥
न पर्व॑ता॒ न न॒द्यो॑ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।
उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥७॥
यत् पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।
विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दस॒: शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥८॥
मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒ऽस्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्तन ।
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥९॥
यू॒यम॒स्मान् न॑यत॒ वस्यो॒ अच्छा॒ निरं॑ह॒तिभ्यो॑ मरुतो गृणा॒नाः ।
जु॒षध्वं॑ नो ह॒व्यदा॑तिं यजत्रा व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१०॥॥