Atharvaveda Shaunaka Samhita – Kanda 06 Sukta 003

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

आत्मगोपनम्।

१-३ अथर्वा। १ इन्द्रपूषणौ, अदितिः, मरुतः, अपां नपात्, सिन्धवः, विष्णुः, द्यौः,२ द्यावापृथिवी, ग्रावा, सोमः, सरस्वती, अग्निः,३ अश्विनौ, उषासानक्ता, अपां नपात्, त्वष्टा। जगती, पथ्याबृहती।

पा॒तं न॑ इन्द्रापूष॒णादि॑तिः॒ पान्तु॑ म॒रुतः॑ ।
अपां॑ नपात् सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥१॥
पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः ।
पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥२॥
पा॒तां नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम्।
अपां॑ नपा॒दभिह्रुती॒ गय॑स्य चि॒द देव॑ त्वष्टर्व॒र्ध॑य॑ स॒र्वता॑तये ॥