Rigveda – Shakala Samhita – Mandala 08 Sukta 087

A
A+
६ कृष्ण आङ्गिरसो, वासिष्ठो वा द्युम्नीक:, प्रियमेध आङ्गिरसो वा।अश्विनौ । प्रगाथ: = ( विषमा बृहती, समा सतोबृहती ) ।
द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् । मध्व॑: सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥१॥
पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ऽऽब॒र्हिः सी॑दतं नरा । ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वय॑: ॥२॥
आ वां॒ विश्वा॑भिरू॒तिभि॑: प्रि॒यमे॑धा अहूषत । ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥३॥
पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ऽऽब॒र्हिः सी॑दतं सु॒मत् ।
ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ॥४॥
आ नू॒नं या॑तमश्वि॒नाऽश्वे॑भिः प्रुषि॒तप्सु॑भिः । दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥५॥
व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये । ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याऽश्वि॑ना श्रु॒ष्ट्या ग॑तम् ॥६॥