Rigveda – Shakala Samhita – Mandala 01 Sukta 129

A
A+
११ परुच्छेपो दैवोदासिः । इन्द्रः, इन्दुः।अत्यष्टिः, ८-९ अतिशक्वर्यौ, ११अष्टिः।
यं त्वं रथ॑मिन्द्र मे॒धसा॑तये ऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि ।
स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म् ।
सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥१॥
स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद् द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभि॑: ।
यः शूरै॒: स्व १: सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता ।
तमी॑शा॒नास॑ इरधन्त वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिन॑म् ॥२॥
द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द् यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्य॑म् ।
इन्द्रो॒त तुभ्यं॒ तद् दि॒वे तद् रु॒द्राय॒ स्वय॑शसे ।
मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथ॑: सुमृळी॒काय॑ स॒प्रथ॑: ॥३॥
अ॒स्माकं॑ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युज॑म् ।
अ॒स्माकं॒ ब्रह्मो॒तये ऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् ।
न॒हि त्वा॒ शत्रु॒: स्तर॑तेः स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑: स्तृ॒णोषि॒ यम् ॥४॥
नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त् तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभि॑: ।
नेषि॑ णो॒ यथा॑ पु॒राऽने॒नाः शू॑र॒ मन्य॑से ।
विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥५॥
प्र तद् वो॑चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न् मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति ।
स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् ।
अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥६॥
व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं सन्तं॑ सु॒वीर्य॑म् ।
दु॒र्मन्मा॑नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि ।
आ स॒त्याभि॒रिन्द्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥७॥
प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो॑ दुर्मती॒नां दरी॑मन् दुर्मती॒नाम् ।
स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः ।
ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥८॥
त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ ।
सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ ।
पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भि॒: सदा॑ पाह्य॒भिष्टि॑भिः ॥९॥
त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त् त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से ।
ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य ।
अ॒न्यम॒स्मद् रि॑रिषे॒: कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥१०॥
पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ ऽवया॒ता सद॒मिद् दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम् ।
ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः ।
अधा॒ हि त्वा॑ जनि॒ता जीज॑नद् वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद् वसो ॥११॥