Rigveda – Shakala Samhita – Mandala 01 Sukta 138

A
A+
४ परुच्छेपो दैवोदासिः। पूषा। अत्यष्टिः।
प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त॑न्दते स्तो॒त्रम॑स्य॒ न त॑न्दते ।
अर्चा॑मि सुम्न॒यन्न॒हमन्त्यू॑तिं मयो॒भुव॑म् ।
विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ॑युयु॒वे म॒खः ॥१॥
प्र हि त्वा॑ पूषन्नजि॒रं न याम॑नि॒ स्तोमे॑भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी॑परो॒ मृध॑: ।
हु॒वे यत् त्वा॑ मयो॒भुवं॑ दे॒वं स॒ख्याय॒ मर्त्य॑: ।
अ॒स्माक॑माङ्गू॒षान् द्यु॒म्निन॑स्कृधि॒ वाजे॑षु द्यु॒म्निन॑स्कृधि ॥२॥
यस्य॑ ते पूषन् त्स॒ख्ये वि॑प॒न्यव॒: क्रत्वा॑ चि॒त् सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा॑ बुभुज्रि॒रे ।
तामनु॑ त्वा॒ नवी॑यसीं नि॒युतं॑ रा॒य ई॑महे ।
अहे॑ळमान उरुशंस॒ सरी॑ भव॒ वाजे॑वाजे॒ सरी॑ भव ॥३॥
अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये॑ भु॒वो ऽहे॑ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व ।
ओ षु त्वा॑ ववृतीमहि॒ स्तोमे॑भिर्दस्म सा॒धुभि॑: ।
न॒हि त्वा॑ पूषन्नति॒मन्य॑ आघृणे॒ न ते॑ स॒ख्यम॑पह्नु॒वे ॥४॥