Rigveda – Shakala Samhita – Mandala 01 Sukta 084

A
A+

२० गोतमो राहूगणः। इन्द्रः। १-६ अनुष्टप्, ७-९ उष्णिक्, १०-१२ पंक्तिः, १३-१५गायत्री, १६-१८ त्रिष्टुप्(प्रगा थः-) १९ बृहती, २० सतोबृहती।
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
आ त्वा॑ पृणक्त्विन्द्रि॒यं रज॒: सूर्यो॒ न र॒श्मिभि॑: ॥१॥
इन्द्र॒मिद्धरी॑ वह॒तो ऽप्र॑तिधृष्टशवसम् ।
ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥२॥
आ ति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥३॥
इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न् धारा॑ ऋ॒तस्य॒ साद॑ने ॥४॥
इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सह॑: ॥५॥
नकि॒ष्ट्वद् र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकि॒: स्वश्व॑ आनशे ॥६॥
य एक॒ इद् वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥७॥
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
क॒दा न॑: शुश्रव॒द् गिर॒ इन्द्रो॑ अ॒ङ्ग ॥८॥
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं तत् प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥९॥
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्व॑: पिबन्ति गौ॒र्य॑: ।
या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥१०॥
ता अ॑स्य पृशना॒युव॒: सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥११॥
ता अ॑स्य॒ नम॑सा॒ सह॑: सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥१२॥
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑ नव॒तीर्नव॑ ॥१३॥
इ॒च्छन्नश्व॑स्य॒ यच्छिर॒: पर्व॑ते॒ष्वप॑श्रितम् । तद् वि॑दच्छर्य॒णाव॑ति ॥१४॥
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥१५॥
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून् हृ॒त्स्वसो॑ मयो॒भून् य ए॑षां भृ॒त्यामृ॒णध॒त् स जी॑वात् ॥१६॥
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒ये ऽधि॑ ब्रवत् त॒न्वे॒ ३ को जना॑य ॥१७॥
को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभि॑: ।
कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥१८॥
त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वच॑: ॥१९॥
मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ ऽस्मान् कदा॑ च॒ना द॑भन् ।
विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥२०॥