SELECT KANDA

SELECT SUKTA OF KANDA 02

Atharvaveda Shaunaka Samhita – Kanda 02 Sukta 014

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

वस्युनाशनम्।

१-६ चातनः। शालाग्निदैवत्यम्। अनुष्टुप्, २ भुरिक्, ४ उपरिष्ठाद्विराड् बृहती।

निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम्।
सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑ ॥१॥
निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒सात्।
निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे ॥२॥
अ॒सौ यो अ॑ध॒राद् गृ॒हस्तत्र॑ सन्त्वरा॒य्यः ।
तत्र॑ से॒दिर्न्युऽच्यतु॒ सर्वा॑श्च यातुधा॒न्यः ॥३॥
भू॒त॒प॒तिर्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑ ।
गृ॒हस्य॑ बु॒ध्न आसी॑ना॒स्ता इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥४॥
यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः ।
यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑ ॥५॥
परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन्।
अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑ ॥६॥