SELECT KANDA

SELECT SUKTA OF KANDA 02

Atharvaveda Shaunaka Samhita – Kanda 02 Sukta 004

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

दीर्घायुःप्राप्तिः।

१-६ अथर्वा। (चन्द्रमाः,) जङ्गिडः। अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः।
दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व।
म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम्॥१॥
जङ्गि॒डो ज॒म्भाद् वि॑श॒राद् विष्क॑न्धादभि॒शोच॑नात्।
म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ॥२॥
अ॒यं विष्क॑न्धं सहते॒ऽयं बा॑धते अ॒त्त्रिणः॑ ।
अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ॥३॥
दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑ ।
विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे ॥४॥
श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम्।
अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ॥५॥
कृ॒त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑ ।
अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत्॥६॥