SELECT KANDA

SELECT SUKTA OF KANDA 15

Atharvaveda Shaunaka Samhita – Kanda 15 Sukta 016

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

१-७ अथर्वा। अध्यात्मं, व्रात्यः। १,३ साम्नी उष्णिक्, २,४-५ प्राजापत्या उष्णिक्,
६ याजुषी त्रिष्टुप्, ७ आसुरी गायत्री।

तस्य॒ व्रात्य॑स्य ।योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी॥१॥
तस्य॒ व्रात्य॑स्य ।योऽस्य द्वि॒तीयो॑ऽपा॒नः साष्ट॑का ॥२॥
तस्य॒ व्रात्य॑स्य ।योऽस्य तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या॥३॥
तस्य॒ व्रात्य॑स्य । योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा॥४॥
तस्य॒ व्रात्य॑स्य । योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा॥५॥
तस्य॒ व्रात्य॑स्य । योऽस्य ष॒ष्ठोऽपा॒नः स य॒ज्ञः ॥६॥
तस्य॒ व्रात्य॑स्य । योऽस्य सप्त॒मोऽपा॒नस्ता इ॒मा दक्षि॑णाः ॥७॥