Rigveda – Shakala Samhita – Mandala 01 Sukta 054

A
A+

११ सव्य आङ्गिरसः। इन्द्रः। जगती, ६, ८-९, ११ त्रिष्टुप्।
मा नो॑ अ॒स्मिन् म॑घवन् पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒: शव॑सः परी॒णशे॑ ।
अक्र॑न्दयो न॒द्यो॒ ३ रोरु॑व॒द् वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥१॥
अर्चा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्रं॑ म॒हय॑न्न॒भि ष्टु॑हि ।
यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते॑ ॥२॥
अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं १ वच॒: स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मन॑: ।
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥३॥
त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒यो ऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् ।
यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥४॥
नि यद् वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद् व्र॒न्दिनो॒ रोरु॑व॒द् वना॑ ।
प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒: कस्त्वा॒ परि॑ ॥५॥
त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥६॥
स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒: प्रति॒ यः शास॒मिन्व॑ति ।
उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥७॥
अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं॑ च ॥८॥
तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पाना॑: ।
व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥९॥
अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥१०॥
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
रक्षा॑ च नो म॒घोन॑: पा॒हि सू॒रीन् रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑: ॥११॥