Rigveda – Shakala Samhita – Mandala 01 Sukta 098

A
A+
३ कुत्स आङ्गिरसः। अग्निः, वैश्वानरोऽग्निर्वा । त्रिष्टुप्।वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः । इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये॑ण ॥१॥पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश । वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥२॥वैश्वा॑नर॒ तव॒ तत् स॒त्यम॑स्त्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥३॥
  • Rigveda Samhita: A Collection of Ancient Hindu Hymns of the Rigveda, English Translation by H.H. Wilson, published by The Bangalore Printing & Publishing Co., Ltd.