SELECT KANDA

SELECT SUKTA OF KANDA 09

Atharvaveda Shaunaka Samhita – Kanda 09 Sukta 005

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पञ्चौदनो अजः।

१-३८ भृगुः। पञ्चौदनोऽजः, मन्त्रोक्ताः। त्रिष्टुप्, ३ चतुष्पदा पुरोतिशक्वरी जगती, ४, १० जगती,
१४, १७, २७-३० अनुष्टुप् ( ३० ककुम्मती), १६ त्रिपदानुष्टुप्, १८, ३७ त्रिपदा विराड् गायत्री,
२३ पुर उष्णिक्, २४ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्विराड् जगती, २०-२२, २६ पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हता भुरिक्,
३१ सप्तपदाष्टिः, ३२-३५ दशपदा प्रकृतिः, ३६ दशपदाऽऽकृतिः, ३८ एकावसाना द्विपदा साम्नी त्रिष्टुप्।

आ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गच्छतु प्रजा॒नन्।
ती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म्॥१॥
इन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन् य॒ज्ञे यज॑मानाय सू॒रिम्।
ये नो॑ द्वि॒षन्त्यनु तान् र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ॥२॥
प्र प॒दोऽव॑ नेनिग्धि॒ दुश्च॑रितं॒ यच्च॒चार॑ शु॒द्धैः श॒फैरा क्र॑मतां प्रजा॒नन्।
ती॒र्त्वा तमां॑सि बहु॒धा वि॒पश्य॑न्न॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म्॥३॥
अनु॑च्छ्य श्या॒मेन॒ त्वच॑मे॒तां वि॑शस्तर्यथाप॒र्व॑१सिना॒ माभि मं॑स्थाः ।
माभि द्रु॑हः परु॒शः क॑ल्पयैनं तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यैनम्॥४॥
ऋ॒चा कु॒म्भीमध्य॒ग्नौ श्र॑या॒म्या सि॑ञ्चोद॒कमव॑ धेह्येनम्।
प॒र्याध॑त्ता॒ग्निना॑ शमितारः शृ॒तो ग॑च्छतु सु॒कृतां॒ यत्र॑ लो॒कः ॥५॥
उत् क्रा॒मातः॒ परि॒ चेदत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म्।
अ॒ग्नेर॒ग्निरधि॒ सं ब॑भूविथ॒ ज्योति॑ष्मन्तम॒भि लो॒कं ज॑यै॒तम्॥६॥
अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः ।
अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥७॥
पञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि ।
ई॒जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ॥८॥
अजा रो॑ह सु॒कृतां॒ यत्र॑ लो॒कः श॑र॒भो न च॒त्तोऽति॑ दु॒र्गान्ये॑षः ।
पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नः॒ स दा॒तारं॒ तृप्त्या॑ तर्पयाति ॥९॥
अ॒जस्त्रि॑ना॒के त्रि॑दि॒वे त्रि॑पृ॒ष्ठे नाक॑स्य पृ॒ष्ठे द॑दि॒वांसं॑ दधाति ।
पञ्चौ॑दनो ब्र॒ह्मणे॑ दी॒यमा॑नो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॒स्येका॑ ॥१०॥
ए॒तद् वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति ।
अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥११॥
ई॒जा॒नानां॑ सु॒कृतां॑ लो॒कमीप्स॒न् पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति ।
स व्याऽप्तिम॒भि लो॒कं ज॑यै॒तं शि॒वो॒३ऽस्मभ्यं॒ प्रति॑गृहीतो अस्तु ॥१२॥
अ॒जो ह्य॑१ग्नेरज॑निष्ट॒ शोका॒द् विप्रो॒ विप्र॑स्य॒ सह॑सो विप॒श्चित्।
इ॒ष्टं पू॒र्तम॒भिपू॑र्तं॒ वष॑ट्कृतं॒ तद् दे॒वा ऋ॑तु॒शः क॑ल्पयन्तु ॥१३॥
अ॒मो॒तं वासो॑ दद्या॒द्धिर॑ण्य॒मपि॒ दक्षि॑णाम्।
तथा॑ लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः ॥१४॥
ए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑ ।
स्त॒भा॒न पृ॑थि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठेऽधि॑ स॒प्तर॑श्मौ ॥१५॥
अ॒जो॒३स्यज॑ स्वर्गोऽसि॒ त्वया॑ लो॒कमङ्गि॑रसः॒ प्राजा॑नन्।
तं लो॒कं पुण्यं॒ प्र ज्ञे॑षम्॥१६॥
येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्।
तेने॒मं य॒ज्ञं नो॑ वह॒ स्वऽर्दे॒वेषु॒ गन्त॑वे ॥१७॥
अ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः ।
तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ॥१८॥
यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑ ।
सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम्॥१९॥
अ॒जो वा इ॒दमग्ने॒ व्यऽक्रमत॒ तस्योर॑ इ॒यम॑भव॒द् द्यौः पृ॒ष्ठम्।
अ॒न्तरि॑क्षं॒ मध्यं॒ दिशः॑ पा॒र्श्वे स॑मु॒द्रौ कु॒क्षी॥२०॥
स॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट् शिरः॑ ।
ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ॥२१॥
अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्धे ।
यो॒३ऽजं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२२॥
नास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्।
सर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत्॥२३॥
इ॒दमि॑दमे॒वास्य॑ रू॒पं भ॑वति॒ तेनै॑नं॒ सं ग॑मयति ।
इषं॒ मह॒ ऊर्ज॑मस्मै दुहे॒ यो॒३ऽजं पञ्चौ॑दनं दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२४॥
पञ्च॑ रु॒क्मा पञ्च॒ नवा॑नि॒ वस्त्रा॒ पञ्चा॑स्मै धे॒नवः॑ काम॒दुघा॑ भवन्ति ।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२५॥
पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वेऽ भवन्ति ।
स्व॒र्गं लो॒कम॑श्नुते॒ यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२६॥
या पूर्वं॒ पतिं॑ वि॒त्त्वाथा॒न्यं वि॒न्दतेऽप॑रम्।
पञ्चौ॑दनं च॒ ताव॒जं ददा॑तो॒ न वि यो॑षतः ॥२७॥
स॒मा॒नलो॑को भवति पुन॒र्भुवाप॑रः॒ पतिः॑ ।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥२८॥
अ॒नु॒पूर्व॒व॑त्सां धे॒नुम॑न॒ड्वाह॑मुप॒बर्ह॑णम्।
वासो॒ हिर॑ण्यं द॒त्त्वा ते य॑न्ति॒ दिव॑मुत्त॒माम्॥२९॥
आ॒त्मानं॑ पि॒तरं॑ पु॒त्रं पौत्रं॑ पिताम॒हम्।
जा॒यां जनि॑त्रीं मा॒तरं॒ ये प्रि॒यास्तानुप॑ ह्वये ॥३०॥
यो वै नैदा॑घं॒ नाम॒र्तुं वेद॑ । ए॒ष वै नैदा॑घो॒ नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑ ।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥३१॥
यो वै कु॒र्वन्तं॒ नाम॒र्तुं वेद॑ । कु॒र्व॒तींकु॑र्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।
ए॒ष वै कु॒र्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ॥३२॥
यो वै सं॒यन्तं॒ नाम॒र्तुं वेद॑ । सं॒य॒तींसं॑यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।
ए॒ष वै सं॒यन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥३३॥
यो वै पि॒न्वन्तं॒ नाम॒र्तुं वेद॑ ।
पि॒न्व॒तींपि॑न्वतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।
ए॒ष वै पि॒न्वन्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥३४॥
यो वा उ॒द्यन्तं॒ नाम॒र्तुं वेद॑ ।
उ॒द्य॒तीमु॑द्यतीमे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।
ए॒ष वा उ॒द्यन्न्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना॑।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं ददा॑ति ॥३५॥
यो वा अ॑भि॒भुवं॒ नाम॒र्तुं वेद॑ ।
अ॒भि॒भव॑न्तीमभिभवन्तीमे॒वाप्रि॑यस्य भ्रातृ॑व्यस्य॒ श्रिय॒मा द॑त्ते ।
ए॒ष वा अ॑भि॒भूर्नाम॒र्तुर्यद॒जः पञ्चौ॑दनः ।
निरे॒वाप्रि॑यस्य॒ भ्रातृ॑व्यस्य॒ श्रियं॑ दहति॒ भव॑त्या॒त्मना ।
यो॒३जं पञ्चौ॑दनं॒ दक्षि॑नाज्योतिषं॒ ददा॑ति ॥३६॥
अ॒जं च॒ पच॑त॒ पञ्च॑ चौद॒नान्।
सर्वा॒ दिशः॒ संम॑नसः स॒ध्रीचीः॒ सान्त॑र्देशाः॒ प्रति॑ गृह्णन्तु त ए॒तम्॥३७॥
तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ताभ्य॒ आज्यं॒ ह॒विरि॒दं जु॑होमि ॥३८॥