Vajasaneyi Kanva Samhita Adhyaya 35

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 35

A
A+
“अथ पञ्चत्रिंशोऽध्यायः।
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स भूमि॑ स॒र्वत॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ॥१॥ १
पुरु॑ष ए॒वेद सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥२॥ २
ए॒तावा॑नस्य महि॒मातो॒ ज्याया॑श्च॒ पूरु॑षः ।
पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥३॥ ३
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
ततो॒ विष्व॒ङ् व्य॑क्रामत्साशनानश॒ने अ॒भि ॥४॥ ४
ततो वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥५॥ ५
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूस्ताश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ॥६॥ ६
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दा॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥७॥ ७
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥८॥ ८
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ॥९॥ ९
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्यासीत्किं बा॒हू किमू॒रू पादा॑ उच्येते ॥१०॥॥ १०
ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्या शू॒द्रो अ॑जायत ॥११॥॥ ११
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ॥१२॥ १२
नाभ्या॑ आसीद॒न्तरि॑क्ष शी॒र्ष्णो द्यौः॒ सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ२ अ॑कल्पयन् ॥१३॥ १३ (१९४३)
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो॑ऽस्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥१४॥ १४
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥१५॥ १५
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥१६॥(१) १६
अ॒द्भ्यः संभृ॑तः पृथि॒व्यै रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ॥१॥ १७
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥२॥ १८
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।
तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ॥३॥ १९
यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥४॥ २०
रु॒चं ब्रा॒ह्मं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ॥५॥ २१
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑ अहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म् ।
इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ॥६॥ (२) २२
तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमाः॑ ।
तदे॒व शु॒क्रं तद् ब्रह्म॒ तदापः॒ तत्प्र॒जाप॑तिः ॥१॥ २३
सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।
नै॑नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत् ॥२॥ २४
न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यशः॑ ।
हि॒र॒ण्य॒ग॒र्भ इत्ये॒षः ॥३॥ २५
ए॒षो ह॑ दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ ह जा॒तः स॑ उ॒ गर्भे॑ अ॒न्तः ।
स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ् जना॑स्तिष्ठति स॒र्वतो॑मुखः । यस्मा॒न्न जा॒त इत्येषः ॥४॥ २६
वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ गुहा॒ सद्यत्र॒ विश्वं॒ भव॒त्येक॑नीळम् ।
तस्मि॑न्नि॒द सं च॒ वि चै॑ति॒ सर्व॒ स ओतः॒ प्रोत॑श्च वि॒भूः प्र॒जासु॑ ॥५॥ २७
प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् ।
त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒तास॑त् ॥६॥२८॥
स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ ।
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धाम॑न्न॒ध्यर॑यन्त ॥७॥ २९
प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान्प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ।
उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒त्मान॑म॒भि सं वि॑वेश ॥८॥ ३०
परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान्परि॒ दिशः॒ परि॒ स्वः॑ ।
ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत् ॥९॥ ३१
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासि॒ष॒ स्वाहा॑ ॥१०॥॥ ३२
यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते । तया॒ माम॒द्य मे॒धयाग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ ॥११॥॥ ३३
इ॒दं मे॒ ब्रह्म॑ च क्ष॒त्रं चो॒भे श्रिय॑मश्नुताम् ।
मयि॑ दे॒वा द॑धतु॒ श्रिय॒मुत्त॑मां॒ तस्यै॑ ते॒ स्वाहा॑ ॥१२॥(३) ३४
अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यवः॑ । अ॒स्य लो॒कः सु॒ताव॑तः ॥१॥ ३५
द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्वव॒सान॑मस्मै ।
स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्याँ लो॒कमि॑च्छतु । तस्मै॑ युज्यन्तामु॒स्रियाः॑ ॥२॥ ३६
वा॒युः पु॑नातु सवि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । वि मु॑च्यन्तामु॒स्रियाः॑ ॥३॥ ३७
अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ॥४॥ ३८
स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ आ व॑पतु । तस्मै॑ पृथिवि॒ शं भ॑व ।
प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्य॒सौ ॥५॥ ३९
परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थाँ॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् ।
चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जा री॑रिषो॒ मोत वी॒रान् ॥६॥ ४०
शं वातः॒ श हि ते॒ घृणिः॒ शं ते॑ भव॒न्त्विष्ट॑काः ।
शं ते॑ भवन्त्व॒ग्नयः॒ पार्थि॑वासो॒ मा त्वा॒भि शू॑शुचन् ॥७॥ ४१
कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒मापः॑ शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः ।
अ॒न्तरि॑क्ष शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिशः॒ सर्वाः॑ ॥८॥ ४२ (१९७२)
अश्म॑न्वती रीयते॒ स र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता॒ सखा॑यः ।
अत्र॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ॥९॥ ४३
अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रपः॑ ।
अपा॑मार्ग॒ त्वम॒स्मदप॑ दुः॒ष्वप्न्य॑ सुव ॥१०॥॥ ४४
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ ।
यो॒ऽस्मान्द्वे॑ष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥११॥॥ ४५
अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये॑ ।
स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ सं॒तर॑णो भव ॥१२॥ ४६
उद्व॒यं तम॑स॒स्परि॒ स्वः॒ पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥१३॥ ४७
अग्न॒ आयू॑षि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुना॑म् ॥१४॥ ४८
आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑ ॥१५॥ ४९
इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।
श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ॥१६॥ ५०
परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ२ आ द॑धर्षति ॥१७॥ ५१
क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः ।
इ॒हैवायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन् ॥१८॥ ५२
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान्परा॒के ।
मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिषः॑ सन्तु॒ कामाः॒ स्वाहा॑ ॥१९॥ ५३
स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑ । अप॑ नः॒ शोशु॑चद॒धम् ॥२०॥॥ ५४
अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यं जा॑यतां॒ पुनः॑ । अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑ ।
अप॑ नः॒ शोशु॑चद॒घम् ॥२१॥॥ (४) ५५ (१९८५)
॥इति शुक्लयजुःकाण्वसंहितायां पञ्चत्रिंशोऽध्यायः॥३॥५॥”