Vajasaneyi Kanva Samhita Adhyaya 12

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 12

A
A+
“अथ द्वादशोऽध्यायः ।
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धियः॑ । अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑रत् ॥१॥ १
यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तुः स॒वे । स्व॒र्गेया॑य॒ शक्त्या॑ ॥२॥ २
यु॒क्त्वाय॑ सवि॒ता दे॒वान्त्स्व॑र्य॒तो धि॒या दिव॑म् ।
बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ॥३॥ ३
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
वि होत्रा॑ दधे वयुना॒ विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥४॥ ४
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।
शृ॒ण्वन्तु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥५॥ ५
यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजा॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥६॥ ६
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑ नः स्वदतु ॥७॥ ७
इ॒मं नो॑ देव सवितर्य॒ज्ञं प्रण॑य देवा॒व्य॑ सखि॒विद॑ सत्रा॒जितं॑ धन॒जित॑ स्व॒र्जित॑म् ।
ऋ॒चा स्तोम॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रं बृ॒हद्गा॑य॒त्रव॑र्तनि॒ स्वाहा॑ ॥८॥ ८
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वत् पृथि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदाभ॑र । त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ॥९॥ ९ (५५७)
अभ्रि॑रसि॒ नार्य॑सि॒ त्वया॑ व॒यम॒ग्नि श॑केम॒ खनि॑तुम् । स॒धस्थ॒ आ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वत् ॥१०॥॥
हस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ हिर॒ण्ययी॑म् ।
अ॒ग्नेर्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अध्याभ॑र॒दानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥११॥॥ (१) ११
प्रतू॑र्तं वाजि॒न्नाद्र॑व॒ वरि॑ष्ठा॒मनु॑ सं॒वत॑म् ।
दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षे॒ तव॒ नाभिः॑ पृथि॒व्यामधि॒ योनि॒रित् ॥१॥ १२
यु॒ञ्जाथा॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्निं भर॑न्तमस्म॒युम् ॥२॥ १३
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥३॥ १४
प्र॒तूर्वं॒ नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यं मयो॒भूरेहि॑ ।
उ॒र्व॒न्तरि॑क्षं॒ वी॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युजा॑ स॒ह ॥४॥ १५
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदाभ॑र ।
अ॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामः ॥५॥ १६
अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आत॑तन्थ ॥६॥ १७
आ॒गत्य॑ वा॒ज्यध्वा॑न॒ सर्वा॒ मृधो॒ विधू॑नुते । अ॒ग्नि स॒धस्थे॑ मह॒ति चक्षु॑षा॒ निचि॑कीषते ॥७॥ १८
आ॒क्रम्य॑ वाजिन्पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम् । भूमे॑र्वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खने॑म॒ तं व॒यम् ॥८॥ १९
द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॑मा॒त्मान्तरि॑क्ष समु॒द्रो योनिः॑ ।
वि॒ख्याय॒ चक्षु॑षा॒ त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥९॥ २०
उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना॑द् द्रविणो॒दा वा॑जिन् ।
व॒य स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निं खन॑न्त उ॒पस्थे॑ अस्याः ॥१०॥॥ २१
उद॑क्रमीद् द्रविणो॒दा वा॒ज्य॒र्वाकः॒ सुलो॒क सुकृ॑तं पृथि॒व्याम् ।
ततः॑ खनेम सु॒प्रती॑कम॒ग्नि स्वो॒ रुहा॑णा॒ अधि॒ नाक॑मुत्त॒मम् ॥११॥॥ २२
आ त्वा॑ जिघर्मि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नम् ॥१२॥ २३
आ वि॒श्वतः॑ प्र॒त्यञ्चं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।
मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒ जर्भु॑राणः ॥१३॥२४॥
परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥१४॥ २५ (५७६)
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि । धृ॒षद्व॑र्णं दि॒वेदि॑वे भे॒त्तारं॑ भङ्गु॒राव॑ताम् ॥१५॥२६॥
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ॥१६॥ (२) २७
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
पृ॒थि॒व्याः स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत् ख॑नामि ।
ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्य॑तम् ।
शि॒वं प्र॒जाभ्योऽहि॑सन्तं पृथि॒व्या स॒धस्था॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत्ख॑नामः ॥१॥ २८
अ॒पां पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ आ च॒ पुष्क॑रे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥२॥ २९
शर्म॑ च॒ स्थो वर्म॑ च॒ स्थोऽच्छि॑द्रे बहु॒ले उ॒भे । व्यच॑स्वती॒ संव॑साथां भृ॒तम॒ग्निं पु॑री॒ष्य॑म् ॥३॥ ३०
संव॑साथा स्व॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना॑ । अ॒ग्निम॒न्तर्भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित् ।
पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑रा॒ अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने ॥४॥ ३१
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्ना विश्व॑स्य वा॒घतः॑ ॥५॥ ३२
तमु॑ त्वा द॒ध्यङ् ऋषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः । वृ॒त्र॒हणं॑ पुरंद॒रम् ॥६॥ ३३
तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् । ध॒न॒ञ्ज॒य रणे॑रणे ॥७॥ ३४
सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ॥८॥ ३५
नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रं भ॒रः शुचि॑जिह्वो अ॒ग्निः ॥९॥ ३६
स सी॑दस्व म॒हाँ३ अ॑सि॒ शोच॑स्व देव॒वीत॑मः ।
वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ॥१०॥॥ (३) ३७
अ॒पो दे॒वीरुप॑सृज॒ मधु॑मतीरय॒क्ष्माय॑ प्र॒जाभ्यः॑ । तासा॑मा॒स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः ॥१॥ ३८
सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् ।
यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑ळस्तु॒ तुभ्य॑म् ॥२॥ ३९
सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒मास॑द॒त्स्वः॑ । वासो॑ अग्ने वि॒श्वरू॑प॒ संव्य॑यस्व विभावसो ॥३॥ ४०
उदु॑ तिष्ठ स्वध्व॒रावा॑ नो दे॒व्या धि॒या ।
दृ॒शे च॑ भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॒राग्ने॑ याहि सुश॒स्तिभिः॑ ॥४॥ ४१ (५८९)
ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता ।
ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र्वा॒घद्भि॑र्वि॒ह्वया॑महे ॥५॥ ४२
स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु ।
चि॒त्रः शिशुः॒ परि॒ तमा॑ स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ॥३॥ ४३
स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर्भ॑व वा॒ज्य॑र्वन् । पृ॒थुर्भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑णः ॥७॥ ४४
शि॒वो भ॑व प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः ।
मा द्यावा॑पृथि॒वी अ॒भि शो॑ची॒र्मान्तरि॑क्षं॒ मा वन॒स्पती॑न् ॥८॥ ४५
प्रै॑तु वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भ॒स्पत्वा॑ । भर॑न्न॒ग्निं पु॑री॒ष्यं॒ मा पा॒द्यायु॑षः पु॒रा ॥९॥ ४६
वृषा॒ग्निं वृष॑णं॒ भर॑न्न॒पां गर्भ॑ समु॒द्रिय॑म् । अग्न॒ आया॑हि वी॒तये॑ ।
ऋ॒त स॒त्यमृ॒त स॒त्यमग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः ॥१०॥॥ ४७
ओष॑धयः॒ प्रति॑मोदध्वम॒ग्निमे॒त शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्माः ।
व्यस्य॒न् विश्वा॒ अनि॑रा॒ अमी॑वा नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिं ज॑हि ॥११॥॥ ४८
ओष॑धयः॒ प्रति॑गृभ्णीत॒ पुष्प॑वतीः सुपिप्प॒लाः ।
अ॒यं वो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्न स॒धस्थ॒मास॑दत् ॥१२॥ ४९
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्यामग्नेर॒ह सु॒हव॑स्य॒ प्रणी॑तौ ॥१३॥ (४) ५०
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥१॥ ५१
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥२॥ ५२
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥३॥ ५३
मि॒त्रः स॒सृज्य॑ पृथि॒वीं भूमिं॑ च॒ ज्योति॑षा स॒ह ।
सुजा॑तं जा॒तवे॑दसमय॒क्ष्माय॑ त्वा॒ ससृ॑जामि प्र॒जाभ्यः॑ ॥४॥ ५४
रु॒द्राः स॒सृज्य॑ पृथि॒वीं बृ॒हज्ज्योतिः॒ समी॑धिरे । तेषां॑ भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते ॥५॥ ५५
ससृ॑ष्टां॒ वसु॑भी रुद्रै॒र्धीरैः॑ कर्म॒ण्यां॒ मृद॑म् ।
हस्ता॑भ्यां मृ॒द्वीं कृ॒त्वा सि॑नीवा॒ली कृ॑णोतु॒ ताम् ॥६॥ ५६
सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा । सा तुभ्य॑मदिते म॒ह्योखां द॑धातु॒ हस्त॑योः ॥७॥ ५७
उ॒खां कृ॑णोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर्धि॒या ।
मा॒ता पु॒त्रं यथो॒पस्थे॒ साग्निं बि॑भर्तु॒ गर्भ॒ आ ॥८॥ ५८ (६०६)
म॒खस्य॒ शिरो॑ऽसि॒ वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॑ पृथि॒व्य॑सि ।
धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय ।
रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वास्य॒न्तरि॑क्षमसि ।
धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय ।
आ॒दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॒ द्यौर॑सि ।
धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय ।
विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वद् ध्रु॒वासि॒ दिशो॑ऽसि ।
धा॒रया॒ मयि॑ प्र॒जा रा॒यस्पोषं॑ गौप॒त्य सु॒वीर्य॑ सजा॒तान्यज॑मानाय ।
अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु ॥९॥ ५९
कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ । पु॒त्रेभ्यः॒ प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑ ॥१०॥॥ ६०
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ।
आ॒दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा
धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ।
इन्द्र॑स्त्वा धूपयतु॒ वरु॑णस्त्वा धूपयतु॒ विष्णु॑स्त्वा धूपयतु ॥११॥॥ (५) ६१
अदि॑तिष्ट्वा दे॒वी वि॒श्वदे॑व्यावती । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत् ख॑नत्ववट् ॥१॥ ६२
दे॒वानां॑ त्वा॒ पत्नी॑र्दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद्द॑धतूखे ।
धि॒षणा॑स्त्वा दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वद॒भी॑न्धतामुखे ।
वरू॑त्रीष्ट्वा दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वच्छ्र॑पयन्तूखे ।
ग्नास्त्वा॑ दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे ।
जन॑य॒स्त्वाच्छि॑न्नपत्रा दे॒वीर्वि॒श्वदे॑व्यावतीः । पृथि॒व्याः स॒धस्थे॑ अङ्गिर॒स्वत्प॑चन्तूखे ॥२॥ ६३
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥३॥ ६४
दे॒वस्त्वा॑ सवि॒तोद्व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः सु॑बा॒हुरु॒त शक्त्या॑ ।
अव्य॑थमाना पृथि॒व्यामाशा॒ दिश॒ आपृ॑ण ॥४॥ ६५
उ॒त्थाय॑ बृह॒ती भ॒वोदु॑ तिष्ठ ध्रु॒वा त्वम् । मित्रै॒तां त॑ उ॒खां परि॑ददा॒म्यभि॑त्या ए॒षा मा भे॑दि ।
वस॑व॒स्त्वाछृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साङ्गिर॒स्वद्रु॒द्रास्त्वाछृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साङ्गिर॒स्वत् ।
आ॒दि॒त्यास्त्वाछृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साङ्गिर॒स्वद्विश्वे॑ त्वा दे॒वा वै॑श्वान॒रा आछृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साङ्गिर॒स्वत् ॥५॥ (६) ६६ (६१४)
आकू॑तिम॒ग्निं प्र॒युज॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निं प्र॒युज॒ स्वाहा॑ ।
चि॒त्तं विज्ञा॑तम॒ग्निं प्र॒युज॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निं प्र॒युज॒ स्वाहा॑ ।
प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ॥१॥ ६७
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ । ॥२॥ ६८
मा सु भि॑त्था॒ मा सु रि॒षोऽम्ब॑ धृ॒ष्णु वी॒रय॑स्व॒ सु । अ॒ग्निश्चे॒दं क॑रिष्यथः ॥३॥ ६९
दृह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्टं॑ दे॒वेभ्य॑ इ॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ॥४॥ ७०
द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे॑ण्यः । सह॑सस्पु॒त्रो अद्भु॑तः ॥५॥ ७१
पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ३ अ॒भ्यात॑र । यत्रा॒हमस्मि॒ ता३ अ॑व ॥६॥ ७२
प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हाग॑हि । पुरी॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वं त॑रा॒ मृधः॑ ॥७॥ ७३
यद॑ग्ने॒ कानि॒कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥८॥ ७४
यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति । सर्वं॒ तद॑स्तु ते घृ॒तं तज्जु॑षस्व यविष्ठ्य ॥९॥ ७५
अह॑रह॒रप्र॑यावं॒ भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै ।
रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम ॥१०॥॥ ७६
नाभा॑ पृथि॒व्याः स॑मिधा॒ने अ॒ग्नौ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे ।
इ॒रम्म॒दं बृ॒हदु॑क्थ्यं॒ यज॑त्रं॒ जेता॑रम॒ग्निं पृत॑नासु सास॒हिम् ॥११॥॥ ७७
याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त ।
ये स्ते॒ना ये च॒ तस्क॑रा॒स्तास्ते॑ अ॒ग्नेऽपि॑दधाम्या॒स्ये॑ ॥१२॥ ७८
दष्ट्रा॑भ्यां म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राँ३ उ॒त ।
हनु॑भ्या स्ते॒नान् भ॑गव॒स्ता स्त्वं खा॑द॒ सुखा॑दितान् ॥१३॥ ७९
ये जने॑षु म॒लिम्ल॑व स्ते॒नास॒स्तस्क॑रा॒ वने॑ । ये कक्षे॑ष्वघा॒यव॒स्तास्ते॑ दधामि॒ जम्भ॑योः ॥१४॥ ८०
यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ । निन्दा॒द्यो अ॒स्मान्धिप्सा॑च्च॒ सर्वं॒ तं म॑स्म॒सा कु॑रु ॥१५॥ ८१
सशि॑तं मे॒ ब्रह्म॒ सशि॑तं वी॒र्यं॒ बल॑म् । सशि॑तं क्ष॒त्रं जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑तः ॥१६॥ ८२
उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल॑म् । क्षि॒णोमि॒ ब्रह्म॑णा॒मित्रा॒नुन्न॑यामि॒ स्वाँ३ अ॒हम् ॥१७॥ ८३
अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ ।
प्र प्र॑ दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । वि॒श्वक॑र्मणे॒ स्वाहा॑ ॥१८॥ ८४
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धतां॒ पुन॑र्ब्र॒ह्माणो॑ वसुनीथ य॒ज्ञैः ।
घृ॒तेन॒ त्वं त॒न्वं॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॒ स्वाहा॑ ॥१९॥ ८५ (६३३)
॥इति शुक्लयजुः काण्वसंहितायां द्वादशोऽध्यायः॥ (१२)”