Rigveda – Shakala Samhita – Mandala 06 Sukta 045

A
A+
३३ शंयुर्बार्हस्पत्य:। इन्द्र:, ३१-३३ बृबुस्तक्षा । गायत्री, २९ अतिनिचृत, ३१ पादनिचृत, ३३ अनुष्टुप् ।
य आन॑यत्परा॒वत॒: सुनी॑ती तु॒र्वशं॒ यदु॑म् । इन्द्र॒: स नो॒ युवा॒ सखा॑ ॥१॥
अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना॑ चि॒दर्व॑ता । इन्द्रो॒ जेता॑ हि॒तं धन॑म् ॥२॥
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः । नास्य॑ क्षीयन्त ऊ॒तय॑: ॥३॥
सखा॑यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत । स हि न॒: प्रम॑तिर्म॒ही ॥४॥
त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो॑रसि । उ॒तेदृशे॒ यथा॑ व॒यम् ॥५॥
नय॒सीद्वति॒ द्विष॑: कृ॒णोष्यु॑क्थशं॒सिन॑: । नृभि॑: सु॒वीर॑ उच्यसे ॥६॥
ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा॑यमृ॒ग्मिय॑म् । गां न दो॒हसे॑ हुवे ॥७॥
यस्य॒ विश्वा॑नि॒ हस्त॑योरू॒चुर्वसू॑नि॒ नि द्वि॒ता । वी॒रस्य॑ पृतना॒षह॑: ॥८॥
वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते । वृ॒ह मा॒या अ॑नानत ॥९॥
तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते । अहू॑महि श्रव॒स्यव॑: ॥१०॥
तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा॑ नू॒नं हि॒ते धने॑ । हव्य॒: स श्रु॑धी॒ हव॑म् ॥११॥
धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ॑ इन्द्र श्र॒वाय्या॑न् । त्वया॑ जेष्म हि॒तं धन॑म् ॥१२॥
अभू॑रु वीर गिर्वणो म॒हाँ इ॑न्द्र॒ धने॑ हि॒ते । भरे॑ वितन्त॒साय्य॑: ॥१३॥
या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति । तया॑ नो हिनुही॒ रथ॑म् ॥१४॥
स रथे॑न र॒थीत॑मो॒ऽस्माके॑नाभि॒युग्व॑ना । जेषि॑ जिष्णो हि॒तं धन॑म् ॥१५॥
य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः । पति॑र्ज॒ज्ञे वृष॑क्रतुः ॥१६॥
यो गृ॑ण॒तामिदासि॑था॒ऽऽपिरू॒ती शि॒वः सखा॑ । स त्वं न॑ इन्द्र मृळय ॥१७॥
धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या॑य वज्रिवः । सा॒स॒ही॒ष्ठा अ॒भि स्पृध॑: ॥१८॥
प्र॒त्नं र॑यी॒णां युजं॒ सखा॑यं कीरि॒चोद॑नम् । ब्रह्म॑वाहस्तमं हुवे ॥१९॥
स हि विश्वा॑नि॒ पार्थि॑वाँ॒ एको॒ वसू॑नि॒ पत्य॑ते । गिर्व॑णस्तमो॒ अध्रि॑गुः ॥२०॥
स नो॑ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे॑भिर॒श्विभि॑: । गोम॑द्भिर्गोपते धृ॒षत् ॥२१॥
तद्वो॑ गाय सु॒ते सचा॑ पुरुहू॒ताय॒ सत्व॑ने । शं यद्गवे॒ न शा॒किने॑ ॥२२॥
न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः । यत्सी॒मुप॒ श्रव॒द्गिर॑: ॥२३॥
कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम॑न्तं दस्यु॒हा गम॑त् । शची॑भि॒रप॑ नो वरत् ॥२४॥
इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो॑नुवु॒र्गिर॑: । इन्द्र॑ व॒त्सं न मा॒तर॑: ॥२५॥
दू॒णाशं॑ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते । अश्वो॑ अश्वाय॒ते भ॑व ॥२६॥
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे । न स्तो॒तारं॑ नि॒दे क॑रः ॥२७॥
इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष॑न्ते गिर्वणो॒ गिर॑: । व॒त्सं गावो॒ न धे॒नव॑: ॥२८॥
पु॒रू॒तमं॑ पुरू॒णां स्तो॑तॄ॒णां विवा॑चि । वाजे॑भिर्वाजय॒ताम् ॥२९॥
अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः । अ॒स्मान्रा॒ये म॒हे हि॑नु ॥३०॥
अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् । उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ॥३१॥
यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑ । स॒द्यो दा॒नाय॒ मंह॑ते ॥३२॥
तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑: । बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ॥३३॥