SELECT KANDA

SELECT SUKTA OF KANDA 02

Atharvaveda Shaunaka Samhita – Kanda 02 Sukta 034

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

पशवः।

१-५ अथर्वा। १ पशुपतिः, २ देवाः, ३ अग्निः विश्वाकर्मा, ४ वायुः प्रजापतिः, ५ आशीः। त्रिष्टुप्।

य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्।
निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम्॥१॥
प्र॒मु॒ञ्चन्तो॒ भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः ।
उ॒पाकृ॑तं शशमा॒नं यदस्था॑त् प्रि॒यं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥२॥
ये ब॒ध्यमा॑न॒मनु॒ दीध्या॑ना अ॒न्वैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च ।
अ॒ग्निष्टानग्रे॒ प्र मु॑मोक्तु दे॒वो वि॒श्वक॑र्मा प्र॒जया॑ संररा॒णः ॥३॥
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा विरू॑पाः सन्तो॑ बहु॒धैक॑रूपाः ।
वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥४॥
प्र॒जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्।
दिवं॑ गच्छ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥५॥