SELECT KANDA

SELECT SUKTA OF KANDA 02

Atharvaveda Shaunaka Samhita – Kanda 02 Sukta 008

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

क्षेत्रियरोगनाशनम्।

१-५ भृग्वङ्गिराः। वनस्पतिः, यक्ष्म नाशनम्। अनुष्टुप्, ३ पथ्यापङ्क्तिः,
४ विराट्, ५ निचृत्पथ्यापङ्क्तिः।
उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के ।
वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम्॥१॥
अपे॒यं रात्र्यु॑च्छ॒त्वपो॑च्छन्त्वभि॒कृत्व॑रीः ।
वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥२॥
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या।
वीरुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥३॥
नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ ।
वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ॥४॥
नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्येऽभ्यः ।
नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ॥५॥