Vajasaneyi Kanva Samhita Adhyaya 08

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 08

A
A+
“अथाष्टमोऽध्यायः ।
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ॥१॥ १
क॒दा च॒न प्रयु॑च्छस्यु॒भे निपा॑सि॒ जन्म॑नी ।
तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्था अ॒मृतं॑ दि॒व्या॑दि॒त्येभ्य॑स्त्वा ॥२॥ २
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा ।
विव॑स्वाँ३ आदित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व ॥३॥ (१)
श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नुतः ।
पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे ॥१॥ (२) ४
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥१॥(३) ५
उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॑ऽसि चनो॒धाश्चनो॒ मयि॑ धेहि ।
जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य सवि॒त्रे त्वा॑ ॥१॥(४) ६
उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑सि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नमः॑ ।
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (५) ७
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य ते देव सोम।
इन्द॑ इन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑३ ऋध्यासम् ॥१॥ ८
अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒तास॑ ।
अ॒ह सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ॥२॥ ९
अग्ने॒ वाक्पत्नि॑ सजूर्दे॒वेन॒ त्वष्ट्रा॑ ।सोमं॑ पिब॒ स्वाहा॑ ॥३॥ १०
प्र॒जाप॑ति॒र्वृषा॑सि रेतो॒धा रेतो॒ मयि॑ धेहि । प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ॥४॥ (६) ११
उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा ।
हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑ मा॒ इन्द्रा॑य ॥१॥ १२
यस्ते॑ देव सोमश्व॒सनि॑र्भ॒क्षो यो गो॒सनिः॑ ।
तस्य॑ त इ॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒ उप॑हूतस्य भक्षयामि ॥२॥ (७) १३ (३९३)
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ।
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (८) १४
आति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीन॒ सु ते॒ मनो॒ग्रावा॑ कृणोतु व॒ग्नुना॑ ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (९) १५
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (१० ) १६
यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सररा॒णस्त्रीणि॒ ज्योती॑षि सचते॒ स षो॑ळ॒शी ॥१॥ १७
इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑ ॥२॥ (११) १८
अग्न॒ आयू॑षि पवस॒ आसु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म्।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से।
अग्ने॑ वर्चस्व॒न्वर्च॑स्वा॒स्त्वं दे॒वेष्वसि॑। वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१२) १९
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् । उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।
अग्ने॑ वर्चस्व॒न्वर्च॑स्वा॒स्त्वं दे॒वेष्वसि॑ । वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१३) २०
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑से ।
इन्द्रौ॑जस्व॒न्नोज॑स्वा॒स्त्वं दे॒वेष्वसि॑। ओज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१४) २१
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒३ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१५) २२
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१६) २३ (४०३)
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१७) २४
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ३ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृध॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ॥१॥ (१८) २५
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (१९) २६
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सुरिर॑स्तु ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (२०) २७
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरयु॒ध्यम्।
तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (२१) २८
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णा॒मीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि ।
विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः ॥१॥ २९
व्रेशी॑नां त्वा॒ पत्म॒न्नाधू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि॒ मध्व॑न्तमानां त्वा॒ पत्म॒न्नाधू॑नोमि ।
शु॒क्रं त्वा॑ शु॒क्र आधू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ॥२॥ ३०
क॒कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हत्सोमः॒ सोम॑स्य पुरो॒गाः शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः ।
यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृवि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥३॥ ३१ (४११)
उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑हि ।
अ॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि ॥४॥ (२२) ३२ (४१२)
॥इति शुक्लयजुः काण्वसंहितायां अष्टमोऽध्यायः॥(८)