Rigveda – Shakala Samhita – Mandala 08 Sukta 092

A
A+
३३ श्रुतकक्ष: सुकक्षो वा आङ्गिरस: ।इन्द्र: । गायत्री , १ अनुष्टुप् ।
पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत । वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥१॥
पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१ सन॑श्रुतम् । इन्द्र॒ इति॑ ब्रवीतन ॥२॥
इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः । म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥३॥
अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिण॑: । इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥४॥
तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥५॥
अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा । विश्वा॒भि भुव॑ना भुवत् ॥६॥
त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् । आ च्या॑वयस्यू॒तये॑ ॥७॥
यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् । नर॑मवा॒र्यक्र॑तुम् ॥८॥
शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम । अवा॑ न॒: पार्ये॒ धने॑ ॥९॥
अत॑श्चिदिन्द्र ण॒ उपा ऽऽया॑हि श॒तवा॑जया । इ॒षा स॒हस्र॑वाजया ॥१०॥
अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे । जये॑म पृ॒त्सु व॑ज्रिवः ॥११॥
व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा । उ॒क्थेषु॑ रणयामसि ॥१२॥
विश्वा॒ हि म॑र्त्यत्व॒नाऽनु॑का॒मा श॑तक्रतो । अग॑न्म वज्रिन्ना॒शस॑: ॥१३॥
त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः । न त्वामि॒न्द्राति॑ रिच्यते ॥१४॥
स नो॑ वृष॒न्त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा । धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥१५॥
यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मद॑: । तेन॑ नू॒नं मदे॑ मदेः ॥१६॥
यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इ॑न्द्र वृत्र॒हन्त॑मः । य ओ॑जो॒दात॑मो॒ मद॑: ॥१७॥
वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः । विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥१८॥
इन्द्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिर॑: । अ॒र्कम॑र्चन्तु का॒रव॑: ॥१९॥
यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण॑न्ति स॒प्त सं॒सद॑: । इन्द्रं॑ सु॒ते ह॑वामहे ॥२०॥
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत । तमिद्व॑र्धन्तु नो॒ गिर॑: ॥२१॥
आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः । न त्वामि॒न्द्राति॑ रिच्यते ॥२२॥
वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे । य इ॑न्द्र ज॒ठरे॑षु ते ॥२३॥
अरं॑ त इन्द्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् । अरं॒ धाम॑भ्य॒ इन्द॑वः ॥२४॥
अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ । अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥२५॥
अरं॒ हि ष्म॑ सु॒तेषु॑ ण॒: सोमे॑ष्विन्द्र॒ भूष॑सि । अरं॑ ते शक्र दा॒वने॑ ॥२६॥
प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिर॑: । अरं॑ गमाम ते व॒यम् ॥२७॥
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः । ए॒वा ते॒ राध्यं॒ मन॑: ॥२८॥
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभि॑: । अधा॑ चिदिन्द्र मे॒ सचा॑ ॥२९॥
मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते । मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥३०॥
मा न॑ इन्द्रा॒भ्या॒३दिश॒: सूरो॑ अ॒क्तुष्वा य॑मन् । त्वा यु॒जा व॑नेम॒ तत् ॥३१॥
त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृध॑: । त्वम॒स्माकं॒ तव॑ स्मसि ॥३२॥
त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् । सखा॑य इन्द्र का॒रव॑: ॥३३॥