Atharvaveda Shaunaka Samhita – Kanda 20 Sukta 075

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष॑न्त इन्द्र निः॒सृजः॑ ।
यद् ग॒व्यन्त॒ द्वा जना॒ स्व॑१र्यन्ता॑ स॒मूह॑सि ।
आ॒विष्करि॑क्र॒द् वृषणं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म्॥१॥
वि॒दुष्टे॑ अ॒स्य वी॒र्यऽस्य पू॒रवः॒ पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः ।
शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑जुं शवसस्पते ।
म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥२॥
आदित् ते॑ अ॒स्य वी॒र्यऽस्य चर्किर॒न् मदे॑षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ ।
च॒कर्थ॑ का॒रमे॑भ्यः॒ पृत॑नासु॒ प्रव॑न्तवे ।
ते अ॒न्याम॑न्यां न॒द्यं सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ॥३॥