SELECT KANDA

SELECT SUKTA OF KANDA 09

Atharvaveda Shaunaka Samhita – Kanda 09 Sukta 008

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

यक्ष्मनिवारणम्।

१-२२ भृग्वङ्गिराः। सर्वशीर्षामयाद्यपाकरणम्। अनुष्टुप्, १२ अनुष्टुब्गर्भा ककुम्मती चतुष्पदोष्णिक्,
१५ विराडनुष्टुप्, २१ विराट् पथ्याबृहती, २२ पथ्यापङ्क्तिः।
शी॒र्ष॒क्तिं शी॑र्षाम॒यं क॑र्णशू॒लं वि॑लोहि॒तम्।
सर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥१॥
कर्णा॑भ्यां ते॒ कङ्कू॑षेभ्यः कर्णशू॒लं वि॒सल्पकम्।
सर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥२॥
यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः ।
सर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥३॥
यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्।
सर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥४॥
अ॒ङ्ग॒भे॒दम॑ङ्गज्व॒रं वि॑श्वा॒ङ्ग्यंऽ वि॒सल्प॑कम्।
सर्वं॑ शीर्ष॒ण्यंऽ ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥५॥
यस्य॑ भी॒मः प्र॑तीका॒श उ॑द्वे॒पय॑ति॒ पूरु॑षम्।
त॒क्मानं॑ वि॒श्वशा॑रदं ब॒हिर्निर्म॑न्त्रयामहे ॥६॥
य ऊ॒रू अ॑नु॒सर्प॒त्यथो॒ एति॑ ग॒वीनि॑के ।
यक्ष्मं॑ ते अ॒न्तरङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥७॥
यदि॒ कामा॑दपका॒माद्धृद॑या॒ज्जाय॑ते॒ परि॑ ।
हृ॒दो ब॒लास॒मङ्गे॑भ्यो ब॒हिर्निर्म॑न्त्रयामहे ॥८॥
ह॒रि॒माणं॑ ते॒ अङ्गे॑भ्यो॒ऽप्वाम॑न्त॒रोदरा॑त्।
य॒क्ष्मो॒धाम॒न्तरा॒त्मनो॑ ब॒हिर्निर्म॑न्त्रयामहे ॥९॥
आसो॑ ब॒लासो॒ भव॑तु॒ मूत्रं॑ भवत्वा॒मय॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥१०॥
ब॒हिर्बिलं॒ निर्द्र॑वतु॒ काहा॑बाहं॒ तवो॒दरा॑त्।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥११॥
उ॒दरा॑त् ते क्लो॒म्नो नाभ्या॒ हृद॑या॒दधि॑ ।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥१२॥
याः सी॒मानं॑ विरु॒जन्ति॑ मू॒र्धानं॒ प्रत्य॑र्ष॒नीः ।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१३॥
या हृद॑यमुप॒र्षन्त्य॑नुत॒न्वन्ति॒ कीक॑साः ।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१४॥
याः पा॒र्श्वे उ॑प॒र्षन्त्य॑नु॒निक्ष॑न्ति पृ॒ष्टीः ।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१५॥
यास्ति॒रश्ची॑रुप॒र्षन्त्य॑र्ष॒णीर्व॒क्षणा॑सु ते ।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१६॥
या गुदा॑ अनु॒सर्प॑न्त्या॒न्त्राणि॑ मो॒हय॑न्ति च ।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१७॥
या म॒ज्ज्ञो नि॒र्धय॑न्ति॒ परूं॑षि विरु॒जन्ति॑ च ।
अहिं॑सन्तीरनाम॒या निर्द्र॑वन्तु ब॒हिर्बिल॑म्॥१८॥
ये अङ्गा॑नि॒ म॒दय॑न्ति॒ यक्ष्मा॑सो रोप॒णास्तव॑ ।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥१९॥
वि॒स॒ल्पस्य॑ विद्र॒धस्य॑ वातीका॒रस्य॑ वाल॒जेः ।
यक्ष्मा॑णां॒ सर्वे॑षां वि॒षं निर॑वोचम॒हं त्वत्॥२०॥
पादा॑भ्यां ते॒ जानु॑भ्यां॒ श्रोणि॑भ्यां॒ परि॒ भंस॑सः ।
अनू॑कादर्ष॒णीरु॒ष्णिहा॑भ्यः शी॒र्ष्णो रोग॑मनीनशम्॥२१॥
सं ते॑ शी॒र्ष्णः क॒पाला॑नि॒ हृद॑यस्य च॒ यो वि॒धुः ।
उ॒द्यन्ना॑दित्य र॒श्मिभिः॑ शी॒र्ष्णो रोग॑मनीनशोऽङ्गभे॒दम॑शीशमः ॥२२॥