Vajasaneyi Kanva Samhita Adhyaya 04

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 04

A
A+
“अथ चतुर्थोऽध्यायः।
एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ ।
ऋक्सा॒माभ्या॑ स॒न्तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ॥१॥ १
इ॒मा आपः॒ शमु॑ मे सन्तु दे॒वीरोष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ हिसीः ।
आपो॑ अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु ॥२॥ २
विश्व॒ हि रि॒ प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ।
दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वा श॒ग्मां परि॑दधे भ॒द्रं वर्णं॒ पुष्य॑न् ॥३॥ (१) ३
म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । वृ॒त्रस्य॑ क॒नीन॑कासि चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि ॥१॥ ४
चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ स॒वि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभिः॑ ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ॥२॥ ५
आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॑ध्व॒रे । आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे ॥३॥ ६
स्वाहा॑ य॒ज्ञं मन॑सः॒ स्वाहो॒रोर॒न्तरि॑क्षात् । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ स्वाहा॒ वाता॒दार॑भे॒ ॥४॥ (२) ७
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ग्नये॒ स्वाहा॑
दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे॒ऽग्नये॒ स्वाहा॒।
आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उर्व॑न्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ॥१॥ ८
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ॥२॥(३) ९
ऋ॒क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पातम्। आस्य य॒ज्ञस्यो॒दृचः॑ ॥११॥॥०
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हि सीः ।
ऊर्ग॑स्याङ्गिर॒स्यूर्णं॑म्रदा॒ ऊर्जं॒ मे यच्छ ॥२॥ ११(१९७)
सोम॑स्य नी॒विर॑सि॒ विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य ।
इन्द्र॑स्य॒ योनि॑रसि सुस॒स्याः कृ॒षीस्कृ॑धि ॥३१॥२॥
उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्य ह॑सः। आस्य य॒ज्ञस्यो॒दृचः॑॥४॥(४) १३
व्र॒तं कृ॑णुत व्र॒तं कृ॑णुत व्र॒तं कृ॑णुत । अ॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञियः॑ ॥११॥॥४॥
दैवीं॒ धियं॑ मनामहे सुमृळी॒काम॒भिष्ट॑ये । व॒र्चो॒दाँ वि॒श्वधा॑यस सुती॒र्था नो॑ अस॒द्वशे॑ ॥२॥ १५
ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतवः। ते नो॑ऽवन्तु॒ ते नः॑ पान्तु॒ तेभ्यः॒ स्वाहा॑ ॥३॥ १६
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवाः॑ ।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गसः॒ स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृधः॑ ॥४॥ १७
इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम् ।
अ॑हो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमावि॑शत पृथि॒व्या संभ॑व ॥५॥ १८
अग्ने॒ त्व सु जा॑गृहि व॒य सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ नः॒ पुन॑स्कृधि ॥६॥ १९
पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त् पुन॒श्चक्षुः॒ पुनः॒ श्रोत्रं॑ म॒ आगात् । पुनः॑ प्रा॒णः पुन॑रा॒त्मा म॒ आगा॑त् वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्मा॑ पातु दुरि॒ताद॑व॒द्यात् ॥७॥ २०
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्यः॑ ॥८॥ २१
रास्वेय॑त्सो॒मा भूयो॑ भर । दे॒वो नः॑ सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ॥९॥ (५) २२
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ॥१॥ २३
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒नूय॒न्त्रम॑शीय॒ स्वाहा॑ ।
च॒न्द्रम॑सि शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ॥२॥ २४
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची भव॥३॥ २५
मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय ।
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ॥४॥ २६
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑म्। रु॒द्रस्त्वा व॑र्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ॥५॥(६) २७
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒राच॑के ॥१॥ २८
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्याः। इळा॑यास्प॒दम॑सि घृ॒तव॒त् स्वाहा॑ ॥२॥ २९
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धुः॑ । त्वे रायो॑ अ॒स्मे रायः॑ ॥३॥ ३०(२१६)
मा व॒य रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ रायः॑ । सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा ।
मा म॒ आयुः॒ प्रमो॑षी॒र्मो अ॒हं तव॑ वी॒रान्वि॑देय॒ तव॑ देवि सं॒दृशि॑ ॥४॥(७) ३१
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात्। ए॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोमा॒नाना॒ साम्रा॑ज्यं ग॒च्छता॒दिति॑ मे॒ सोमा॑य ब्रूतात् ॥१॥ ३२
आ॑स्मा॒को॑ऽसि शु॒क्रस्ते॒ ग्रह्यः॑ । वि॒चित॑स्त्वा॒ विचि॑न्वन्तु ॥२॥ ३३
अ॒भि त्यं दे॒व स॑वि॒तार॑मो॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑व रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् ।
ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा स्वः॑ ॥३॥ ३४
प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑नु॒प्राण॑न्तु। प्र॒जास्त्वम॑नु॒प्राणि॑हि ॥४॥ (८) ३५
च॒न्द्रं त्वा च॒न्द्रेण॑ क्रीणामि शु॒क्रं शु॒क्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ ॥१॥ ३६
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्णः॑ । पर॒मेण॑ प॒शुना॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ॥२॥ ३७
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमावि॑श॒ दक्षि॑णम् । उ॒शन्नु॒शन्त॑ स्यो॒नः स्यो॒नम् ॥३॥ ३८
स्वान॒ भ्राजाङ्घा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नो । ए॒ते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ॥४॥ ३९
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ॥५॥ ४०
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥६॥(९) ४१
अदि॑त्या॒स्त्वग॒स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥१॥ ४२
वने॑षु॒ व्य॒न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।
हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ॥२॥ ४३
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रैत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ॥३४॥४
उस्रा॒ एतं॑ धूर्वाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ ।
स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ॥४॥ ४५
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि ।
मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् ।
श्ये॒नो भू॒त्वा परा॑पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सस्कृ॒तम् ॥५॥ ४६(२३२)
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒त स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शसत ॥६॥ ४७
वरु॑णस्यो॒त्तम्भ॑नमसि॒ वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थः ।
वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि वरु॑णस्य ऋत॒सद॑न॒मासी॑द ॥७॥ ४८
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॑न् ॥८॥(१०) ४९ (२३५)
॥इति शुक्लयजुः काण्वसंहितायां चतुर्थोऽध्यायः॥ ४॥