Upanishads – Krishna Yajurveda – Kathopanisad

A
A+
॥ कठोपनिषत् ॥ॐ॥ अथ कठोपनिषद् ॥ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥Part ICanto Iॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।तस्य ह नचिकेता नाम पुत्र आस ॥ १॥तँ ह कुमारँ सन्तं दक्षिणासुनीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥स होवाच पितरं तत कस्मै मां दास्यसीति ।द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥आशाप्रतीक्षे सङ्गतँ सूनृतांचेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।एतद्वृङ्क्ते पुरुषस्याल्पमेधसोयस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥तिस्रो रात्रीर्यदवात्सीर्गृहे मे-ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तुतस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥शान्तसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माऽभि मृत्यो ।त्वत्प्रसृष्टं माऽभिवदेत्प्रतीतएतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥यथा पुरस्ताद् भविता प्रतीतऔद्दालकिरारुणिर्मत्प्रसृष्टः ।सुखँ रात्रीः शयिता वीतमन्युःत्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥स्वर्गे लोके न भयं किञ्चनास्तिन तत्र त्वं न जरया बिभेति ।उभे तीर्त्वाऽशनायापिपासेशोकातिगो मोदते स्वर्गलोके ॥ १२॥स त्वमग्निँ स्वर्ग्यमध्येषि मृत्योप्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।स्वर्गलोका अमृतत्वं भजन्तएतद् द्वितीयेन वृणे वरेण ॥ १३॥प्र ते ब्रवीमि तदु मे निबोधस्वर्ग्यमग्निं नचिकेतः प्रजानन् ।अनन्तलोकाप्तिमथो प्रतिष्ठांविद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥लोकादिमग्निं तमुवाच तस्मैया इष्टका यावतीर्वा यथा वा ।स चापि तत्प्रत्यवदद्यथोक्तंअथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥तमब्रवीत् प्रीयमाणो महात्मावरं तवेहाद्य ददामि भूयः ।तवैव नाम्ना भविताऽयमग्निःसृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥त्रिणाचिकेतस्त्रिभिरेत्य सन्धिंत्रिकर्मकृत्तरति जन्ममृत्यू ।ब्रह्मजज्ञं देवमीड्यं विदित्वानिचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥त्रिणाचिकेतस्त्रयमेतद्विदित्वाय एवं विद्वाँश्चिनुते नाचिकेतम् ।स मृत्युपाशान् पुरतः प्रणोद्यशोकातिगो मोदते स्वर्गलोके ॥ १८॥एष तेऽग्निर्नचिकेतः स्वर्ग्योयमवृणीथा द्वितीयेन वरेण ।एतमग्निं तवैव प्रवक्ष्यन्ति जनासःतृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥येयं प्रेते विचिकित्सा मनुष्ये-ऽस्तीत्येके नायमस्तीति चैके ।एतद्विद्यामनुशिष्टस्त्वयाऽहंवराणामेष वरस्तृतीयः ॥ २०॥देवैरत्रापि विचिकित्सितं पुरान हि सुविज्ञेयमणुरेष धर्मः ।अन्यं वरं नचिकेतो वृणीष्वमा मोपरोत्सीरति मा सृजैनम् ॥ २१॥देवैरत्रापि विचिकित्सितं किलत्वं च मृत्यो यन्न सुज्ञेयमात्थ ।वक्ता चास्य त्वादृगन्यो न लभ्योनान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥शतायुषः पुत्रपौत्रान्वृणीष्वाबहून्पशून् हस्तिहिरण्यमश्वान् ।भूमेर्महदायतनं वृणीष्वस्वयं च जीव शरदो यावदिच्छसि ॥ २३॥एतत्तुल्यं यदि मन्यसे वरंवृणीष्व वित्तं चिरजीविकां च ।महाभूमौ नचिकेतस्त्वमेधिकामानां त्वा कामभाजं करोमि ॥ २४॥ये ये कामा दुर्लभा मर्त्यलोकेसर्वान् कामाँश्छन्दतः प्रार्थयस्व ।इमा रामाः सरथाः सतूर्यान हीदृशा लम्भनीया मनुष्यैः ।आभिर्मत्प्रत्ताभिः परिचारयस्वनचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः ।अपि सर्वं जीवितमल्पमेवतवैव वाहास्तव नृत्यगीते ॥ २६॥न वित्तेन तर्पणीयो मनुष्योलप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।जीविष्यामो यावदीशिष्यसि त्वंवरस्तु मे वरणीयः स एव ॥ २७॥अजीर्यताममृतानामुपेत्यजीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।अभिध्यायन् वर्णरतिप्रमोदान्अतिदीर्घे जीविते को रमेत ॥ २८॥यस्मिन्निदं विचिकित्सन्ति मृत्योयत्साम्पराये महति ब्रूहि नस्तत् ।योऽयं वरो गूढमनुप्रविष्टोनान्यं तस्मान्नचिकेता वृणीते ॥ २९॥॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥Part ICanto IIअन्यच्छ्रेयोऽन्यदुतैव प्रेय-स्ते उभे नानार्थे पुरुषँ सिनीतः ।तयोः श्रेय आददानस्य साधुभवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥श्रेयश्च प्रेयश्च मनुष्यमेतःतौ सम्परीत्य विविनक्ति धीरः ।श्रेयो हि धीरोऽभि प्रेयसो वृणीतेप्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥स त्वं प्रियान्प्रियरूपांश्च कामान्अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।नैतां सृङ्कां वित्तमयीमवाप्तोयस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥दूरमेते विपरीते विषूचीअविद्या या च विद्येति ज्ञाता ।विद्याभीप्सिनं नचिकेतसं मन्येन त्वा कामा बहवोऽलोलुपन्त ॥ ४॥अविद्यायामन्तरे वर्तमानाःस्वयं धीराः पण्डितंमन्यमानाः ।दन्द्रम्यमाणाः परियन्ति मूढाअन्धेनैव नीयमाना यथान्धाः ॥ ५॥न साम्परायः प्रतिभाति बालंप्रमाद्यन्तं वित्तमोहेन मूढम् ।अयं लोको नास्ति पर इति मानीपुनः पुनर्वशमापद्यते मे ॥ ६॥श्रवणायापि बहुभिर्यो न लभ्यःशृण्वन्तोऽपि बहवो यं न विद्युः ।आश्चर्यो वक्ता कुशलोऽस्य लब्धाआश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥न नरेणावरेण प्रोक्त एषसुविज्ञेयो बहुधा चिन्त्यमानः ।अनन्यप्रोक्ते गतिरत्र नास्तिअणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥नैषा तर्केण मतिरापनेयाप्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।यां त्वमापः सत्यधृतिर्बतासित्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥जानाम्यहं शेवधिरित्यनित्यंन ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।ततो मया नाचिकेतश्चितोऽग्निःअनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥कामस्याप्तिं जगतः प्रतिष्ठांक्रतोरानन्त्यमभयस्य पारम् ।स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वाधृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥तं दुर्दर्शं गूढमनुप्रविष्टंगुहाहितं गह्वरेष्ठं पुराणम् ।अध्यात्मयोगाधिगमेन देवंमत्वा धीरो हर्षशोकौ जहाति ॥ १२॥एतच्छ्रुत्वा सम्परिगृह्य मर्त्यःप्रवृह्य धर्म्यमणुमेतमाप्य ।स मोदते मोदनीयँ हि लब्ध्वाविवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥अन्यत्र धर्मादन्यत्राधर्मा-दन्यत्रास्मात्कृताकृतात् ।अन्यत्र भूताच्च भव्याच्चयत्तत्पश्यसि तद्वद ॥ १४॥सर्वे वेदा यत्पदमामनन्तितपाꣳसि सर्वाणि च यद्वदन्ति ।यदिच्छन्तो ब्रह्मचर्यं चरन्तितत्ते पदꣳ सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित् ।अजो नित्यः शाश्वतोऽयं पुराणोन हन्यते हन्यमाने शरीरे ॥ १८॥हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥अणोरणीयान्महतो महीया-नात्माऽस्य जन्तोर्निहितो गुहायाम् ।तमक्रतुः पश्यति वीतशोकोधातुप्रसादान्महिमानमात्मनः ॥ २०॥आसीनो दूरं व्रजति शयानो याति सर्वतः ।कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥नायमात्मा प्रवचनेन लभ्योन मेधया न बहुना श्रुतेन ।यमेवैष वृणुते तेन लभ्यःतस्यैष आत्मा विवृणुते तनूꣳ स्वाम् ॥ २३॥नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥Part ICanto IIIऋतं पिबन्तौ सुकृतस्य लोकेगुहां प्रविष्टौ परमे परार्धे ।छायातपौ ब्रह्मविदो वदन्तिपञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ॥ ११॥एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥उत्तिष्ठत जाग्रतप्राप्य वरान्निबोधत ।क्षुरस्य धारा निशिता दुरत्ययादुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥अशब्दमस्पर्शमरूपमव्ययंतथाऽरसं नित्यमगन्धवच्च यत् ।अनाद्यनन्तं महतः परं ध्रुवंनिचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।तदानन्त्याय कल्पत इति ॥ १७॥इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥Part IICanto Iपराञ्चि खानि व्यतृणत् स्वयम्भू-स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।कश्चिद्धीरः प्रत्यगात्मानमैक्ष-दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥पराचः कामाननुयन्ति बाला-स्ते मृत्योर्यन्ति विततस्य पाशम् ।अथ धीरा अमृतत्वं विदित्वाध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥येन रूपं रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान् ।एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥या प्राणेन सम्भवत्यदितिर्देवतामयी ।गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥यदेवेह तदमुत्र यदमुत्र तदन्विह ।मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन ।मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥Part IICanto IIपुरमेकादशद्वारमजस्यावक्रचेतसः ।अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥हँसः शुचिषद्वसुरान्तरिक्षसद्-होता वेदिषदतिथिर्दुरोणसत् ।नृषद्वरसदृतसद्व्योमसद्अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥अग्निर्यथैको भुवनं प्रविष्टोरूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥वायुर्यथैको भुवनं प्रविष्टोरूपं रूपं प्रतिरूपो बभूव ।एकस्तथा सर्वभूतान्तरात्मारूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥सूर्यो यथा सर्वलोकस्य चक्षुःन लिप्यते चाक्षुषैर्बाह्यदोषैः ।एकस्तथा सर्वभूतान्तरात्मान लिप्यते लोकदुःखेन बाह्यः ॥ ११॥एको वशी सर्वभूतान्तरात्माएकं रूपं बहुधा यः करोति ।तमात्मस्थं येऽनुपश्यन्ति धीराःतेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥नित्योऽनित्यानां चेतनश्चेतनानाम्एको बहूनां यो विदधाति कामान् ।तमात्मस्थं येऽनुपश्यन्ति धीराःतेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३॥तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥न तत्र सूर्यो भाति न चन्द्रतारकंनेमा विद्युतो भान्ति कुतोऽयमग्निः ।तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभाति ॥ १५॥इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥Part IICanto IIIऊर्ध्वमूलोऽवाक्शाIख एषोऽश्वत्थः सनातनः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥भयादस्याग्निस्तपति भयात्तपति सूर्यः ।भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।यथाऽप्सु परीव ददृशे तथा गन्धर्वलोकेछायातपयोरिव ब्रह्मलोके ॥ ५॥इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥न सन्दृशे तिष्ठति रूपमस्यन चक्षुषा पश्यति कश्चनैनम् ।हृदा मनीषा मनसाऽभिक्लृप्तोय एतद्विदुरमृतास्ते भवन्ति ॥ ९॥यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥शतं चैका च हृदयस्य नाड्य-स्तासां मूर्धानमभिनिःसृतैका ।तयोर्ध्वमायन्नमृतत्वमेतिविष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मासदा जनानां हृदये संनिविष्टः ।तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वाविद्यामेतां योगविधिं च कृत्स्नम् ।ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥ॐ शान्तिः शान्तिः शान्तिः ॥इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ॐ शान्तिः शान्तिः शान्तिः ॥ॐ तत् सत् ॥
Image from Agnicayana Project