Rigveda – Shakala Samhita – Mandala 06 Sukta 043

A
A+
४ बार्हस्पत्यो भरद्वाज: । इन्द्र: ।उष्णिक् ।
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धय॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥१॥
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥२॥
यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३॥
यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शव॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥४॥