Rigveda – Shakala Samhita – Mandala 02 Sukta 003
A
A+
११ गृत्समद(आङ्गिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः। आप्रीसूक्तं- (१ इध्मः समिद्धोऽग्निर्वा, २ नराशंसः, ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषासानक्ता, ७ दैव्यो होतारौ प्रचेतसौ, ८ तिस्रो देव्यःसरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतय,) । त्रिष्टुप्, जगती।
समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ् विश्वा॑नि॒ भुव॑नान्यस्थात् ।
होता॑ पाव॒कः प्र॒दिव॑: सुमे॒धा दे॒वो दे॒वान् य॑जत्व॒ग्निरर्ह॑न् ॥१॥
नरा॒शंस॒: प्रति॒ धामा॑न्य॒ञ्जन् ति॒स्रो दिव॒: प्रति॑ म॒ह्ना स्व॒र्चिः ।
घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन् मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥२॥
ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह॑न् दे॒वान् य॑क्षि॒ मानु॑षा॒त्पूर्वो॑ अ॒द्य ।
स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं॑ नरो बर्हि॒षदं॑ यजध्वम् ॥३॥
देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं॑ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् ।
घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे॑ देवा आदित्या य॒ज्ञिया॑सः ॥४॥
वि श्र॑यन्तामुर्वि॒या हू॒यमा॑ना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा नमो॑भिः ।
व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं॑ पुना॒ना य॒शसं॑ सु॒वीर॑म् ॥५॥
सा॒ध्वपां॑सि स॒नता॑ न उक्षि॒ते उ॒षासा॒नक्ता॑ व॒य्ये॑व रण्वि॒ते ।
तन्तुं॑ त॒तं सं॒वय॑न्ती समी॒ची य॒ज्ञस्य॒ पेश॑: सु॒दुघे॒ पय॑स्वती ॥६॥
दैव्या॒ होता॑रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षत॒: समृ॒चा व॒पुष्ट॑रा ।
दे॒वान् यज॑न्तावृतु॒था सम॑ञ्जतो॒ नाभा॑ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ॥७॥
सर॑स्वती सा॒धय॑न्ती॒ धियं॑ न॒ इळा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः ।
ति॒स्रो दे॒वीः स्व॒धया॑ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ॥८॥
पि॒शङ्ग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथ॑: ॥९॥
वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू॑दयाति॒ प्र धी॒भिः ।
त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन् दे॒वेभ्यो॒ दैव्य॑: शमि॒तोप॑ ह॒व्यम् ॥१०॥
घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।
अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम् ॥११॥