SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 046

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अस्तृतमणिः।

१-७ प्रजापतिः। अस्तृतमणिः। त्रिष्टुप्, १ पञ्चपदा ज्योतिष्मती त्रिष्टुप्, २ षट्-पदा भुरिक्शक्वरी,
३, ७ पञ्चरदा पथ्यापङ्क्तिः, ४, ५ अतिजगती ( ४ चतुष्पदा, पञ्चपदा), ६ पञ्चपदोष्णिग्गर्भा विराड् जगती पङ्क्तिः।
प्र॒जाप॑तिष्ट्वा बध्नात् प्रथ॒ममस्तृ॑तं वी॒र्याय॒ कम्।
तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑स॒ ओज॑से च॒ बला॑य॒ चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥१॥
ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नप्र॑माद॒मस्तृ॑ते॒मं मा त्वा॑ दभन् प॒णयो॑ यातु॒धानाः॑ ।
इन्द्र॑ इव॒ दस्यू॒नव॑ धूनुष्व पृतन्य॒तः सर्वां॒छत्रू॒न् वि ष॑ह॒स्वास्तृ॑तस्त्वा॒भि र॑क्षतु ॥२॥
श॒तं च॒ न प्र॒हर॑न्तो नि॒घ्नन्तो॒ न त॑स्ति॒रे।
तस्मि॒न्निन्द्रः॒ पर्य॑दत्त॒ चक्षुः॑ प्रा॒णमथो॒ बल॒मस्तृ॑तस्त्वा॒भि र॑क्षतु ॥३॥
इन्द्र॑स्य त्वा॒ वर्म॑णा॒ परि॑ धापयामो॒ यो दे॒वाना॑मधिरा॒जो ब॒भूव॑ ।
पुन॑स्त्वा दे॒वाः प्र ण॑यन्तु॒ सर्वेऽस्तृ॑तस्त्वा॒भि र॑क्षतु ॥४॥
अ॒स्मिन् म॒णावेक॑शतं वी॒र्याणि स॒हस्रं॑ प्रा॒णा अ॑स्मि॒न्नस्तृ॑ते ।
व्या॒घ्रः शत्रू॑न॒भि ति॑ष्ठ॒ सर्वा॒न् यस्त्वा॑ पृत॒न्यादध॑रः॒ सो अ॒स्त्वस्तृ॑तस्त्वा॒भि र॑क्षतु॥५॥
घृ॒तादुल्लु॑प्तो॒ मधु॑मा॒न् पय॑स्वान्त्स॒हस्र॑प्राणः श॒तयो॑निर्वयो॒धाः ।
श॒म्भूश्च॑ मयो॒भूश्चोर्ज॑स्वांश्च॒ पय॑स्वां॒श्चास्तृ॑तस्त्वा॒भि र॑क्षतु ॥६॥
यथा॒ त्वमु॑त्त॒रोऽसो॑ असप॒त्नः स॑पत्न॒हा।
स॒जा॒ताना॑मसद् व॒शी तथा॑ त्वा सवि॒ता क॑र॒दस्तृ॑तस्त्वा॒भि र॑क्षतु ॥७॥