SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 018

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

सुरक्षा।

१-१० अथर्वा। मन्त्रोक्ताः। १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः)

अ॒ग्निं ते वसु॑वन्तमृच्छन्तु ।ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त्॥१॥
वा॒युं ते॒३ऽन्तरि॑क्षवन्तमृछन्तु । ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥२॥
सोमं॒ ते रु॒द्रव॑न्तमृछन्तु । ये मा॑घा॒यवो॒ दक्षि॑णाया दि॒शोऽभि॒दासा॑त्॥३॥
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु ।ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥४॥
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त्॥५॥
अ॒पस्त ओष॑धीमतीरृछन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥६॥
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु । ये मा॑घा॒यव॒ उदी॑च्या दि॒शोऽभि॒दासा॑त्॥७॥
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु । ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्॥८॥
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु । ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शोऽभि॒दासा॑त्॥९॥
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु । ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दासा॑त्॥१०॥