SELECT KANDA

SELECT SUKTA OF KANDA 13

Atharvaveda Shaunaka Samhita – Kanda 13 Sukta 002

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

अध्यात्मम्।

१-४६ ब्रह्म। अध्यात्मं, रोहितादित्यदैवत्यम्। त्रिष्टुप्; १, १२-१५, ३९-४१ अनुष्टुप्; २-३,८,४३ जगती;
१० आस्तारपङ्क्तिः; ११ बृहतीगर्भा; १६-२४ आर्षी गायत्री; २५ ककुम्मत्यास्तारपङ्क्तिः;
२६पुरोद्व्यतिजागता भुरिग्जगती; २७ विराड् जगती; २९ बार्हतगर्भाऽनुष्टुप्; ३० पञ्चपदोष्णिग्बृहतीगर्भाऽतिजगती;
३४ आर्षी पङ्क्तिः; ३७ पञ्चपदा विराड्-गर्भा जगता; ४४-४५ जगती
(४४ चतुष्पदा पुरःशाक्वरा भुरिक्; ४५ अतिजागतगर्भा)।

उद॑स्य के॒तवो॑ दि॒वि शु॒क्रा भ्राज॑न्त ईरते ।
आ॒दि॒त्यस्य॑ नृ॒चक्ष॑सा॒ महि॑व्रतस्य मी॒ढुषः॑ ॥१॥
दि॒शां प्र॒ज्ञानां॑ स्व॒रय॑न्तम॒र्चिषा॑ सुप॒क्षमा॒शुं प॒तय॑न्तमर्ण॒वे।
स्तवा॑म सूर्यं॒ भुव॑नस्य गो॒पां यो र॒श्मिभि॒र्दिश॑ आ॒भाति॒ सर्वाः॑ ॥२॥
यत् प्राङ् प्र॒त्यङ् स्व॒धया॒ यासि॒ शीभं॒ नाना॑रूपे॒ अह॑नी॒ कर्षि॑ मा॒यया॑ ।
तदा॑दित्य॒ महि॒ तत् ते॒ महि॒ श्रवो॒ यदेको॒ विश्वं॒ परि॒ भूम॒ जाय॑से ॥३॥
वि॒प॒श्चितं॑ त॒रणिं॒ भ्राज॑मानं॒ वह॑न्ति॒ यं ह॒रितः॑ स॒प्त ब॒ह्वीः ।
स्रु॒ताद् यमत्त्रि॒र्दिव॑मुन्नि॒नाय॒ तं त्वा॑ पश्यन्ति परि॒यान्त॑मा॒जिम्॥४॥
मा त्वा॑ दभन् परि॒यान्त॑मा॒जिं स्व॒स्ति दु॒र्गां अति॑ याहि॒ शीभ॑म्।
दिवं॑ च सूर्य पृथि॒वीं च॑ दे॒वी म॑होरा॒त्रे वि॒मिमा॑नो॒ यदेषि॑ ॥५॥
स्व॒स्ति ते॑ सूर्य च॒रसे॒ रथा॑य॒ येनो॒भावन्तौ॑ परि॒यासि॑ स॒द्यः ।
यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥६॥
सु॒खं सूर्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म्।
यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥७॥
स॒प्त सूर्यो॑ ह॒रितो॑ यात॑वे॒ रथे॒ हिर॑ण्यत्वचसो बृह॒तीर॑युक्त ।
अमो॑चि शु॒क्रो रज॑सः प॒रस्ता॑द् वि॒धूय॑ दे॒वस्तमो॒ दिव॒मारु॑हत्॥८॥
उत् के॒तुना॑ बृह॒ता दे॒व आग॒न्नपा॑वृ॒क् तमो॒ऽभि ज्योति॑रश्रैत्।
दि॒व्यः सु॑प॒र्णः स वी॒रो व्यऽख्य॒ददि॑तेः पु॒त्रो भुव॑नानि॒ विश्वा॑ ॥९॥
उ॒द्यन् र॒श्मीना त॑नुषे॒ विश्वा॑ रु॒पाणि॑ पुष्यसि ।
उ॒भा स॑मु॒द्रौ क्रतु॑ना॒ वि भा॑सि॒ सर्वां॑ल्लो॒कान् प॑रि॒भूर्भ्राज॑मानः ॥१०॥
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम्।
विश्वा॒न्यो भुव॑ना वि॒चष्टे॑ हैर॒ण्यैर॒न्यं ह॒रितो॑ वहन्ति ॥११॥
दि॒वि त्वात्त्रि॑रधारय॒त् सूर्या॒ मासा॑य॒ कर्त॑वे ।
स ए॑षि॒ सुधृ॑त॒स्तप॒न् विश्वा॑ भू॒ताव॒चाक॑शत्॥१२॥
उ॒भावन्तौ॒ सम॑र्षसि व॒त्सः सं॑मा॒तरा॑विव ।
न॒न्वे॒३तदि॒तः पु॒रा ब्रह्म॑ दे॒वा अ॒मी वि॑दुः ॥१३॥
यत् स॑मु॒द्रमनु॑ श्रि॒तं तत् सि॑षासति॒ सूर्यः॑ ।
अध्वा॑स्य॒ वित॑तो म॒हान् पूर्व॒श्चाप॑रश्च॒ यः ॥१४॥
तं समा॑प्नोति जू॒तिभि॒स्ततो॒ नाप॑ चिकित्सति ।
तेना॒मृत॑स्य भ॒क्षं दे॒वानां॒ नाव॑ रुन्धते ॥१५॥
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म्॥१६॥
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
सूरा॑य वि॒श्वच॑क्षसे ॥१७॥
अदृ॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ अनु॑ ।
भ्राज॑न्तो अ॒ग्नयो॑ यथा ॥१८॥
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोचन ॥१९॥
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः ।
प्र॒त्यङ् विश्वं॒ स्वर्दृ॒शे॥२०॥
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ॥२१॥
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑ ।
पश्य॒न् जन्मा॑नि सूर्य ॥२२॥
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
शो॒चिष्के॑शं विचक्ष॒णम्॥२३॥
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥२४॥
रोहि॑तो॒ दिव॒मारु॑ह॒त् तप॑सा तप॒स्वी।
स योनि॒मैति॒ स उ॑ जायते॒ पुनः॒ स दे॒वाना॒मधि॑पतिर्बभूव ॥२५॥
यो वि॒श्वच॑र्षणिरु॒त वि॒श्वतो॑मुखो॒ यो वि॒श्वत॑स्पाणिरु॒त वि॒श्वत॑स्पृथः ।
सं बा॒हुभ्यां॒ भर॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एकः॑ ॥२६॥
एक॑पा॒द् द्विप॑दो॒ भूयो॒ वि च॑क्रमे॒ द्विपा॒त् त्रिपा॑दम॒भ्येऽति प॒श्चात्।
द्विपा॑द्ध॒ षट्प॑दो॒ भूयो॒ वि च॑क्रमे॒ त एक॑पदस्त॒न्वं॑१ समा॑सते ॥२७॥
अत॑न्द्रो या॒स्यन् ह॒रितो॒ यदास्था॒द् द्वे रू॒पे कृ॑णुते॒ रोच॑मानः ।
के॒तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ॥२८॥
बण्म॒हां अ॑सि सूर्य॒ बडा॑दित्य म॒हां अ॑सि ।
म॒हांस्ते॑ मह॒तो म॑हि॒मा त्वमा॑दित्य म॒हां अ॑सि ॥२९॥
रोच॑से दि॒वि रोच॑से अ॒न्तरि॑क्षे॒ पत॑ङ्ग पृथि॒व्यां रोच॑से॒ रोच॑से अ॒प्स्व॑१न्तः ।
उ॒भा स॑मु॒द्रौ रुच्या॒ व्याऽपिथ दे॒वो दे॑वासि महि॒षः स्व॒र्जित्॥३०॥
अ॒र्वाङ् प॒रस्ता॒त् प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित् प॒तय॑न् पत॒ङ्गः ।
विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न् प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त्॥३१॥
चि॒त्रश्चि॑कि॒त्वान् म॑हि॒षः सु॑प॒र्ण आ॑रो॒चय॒न् रोद॑सी अ॒न्तरि॑क्षम्।
अ॒हो॒रा॒त्रे परि॒ सूर्यं॒ वसा॑ने॒ प्रास्य॒ विश्वा॑ तिरतो वी॒र्याऽणि ॥३२॥
ति॒ग्मो वि॒भ्राज॑न् त॒न्वं॑१ शिशा॑नोऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः ।
ज्योति॑ष्मान् प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त् प्र॒दिशः॒ कल्प॑मानः ॥३३॥
चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान् प्र॒दिशः॒ सूर्य॑ उ॒द्यन्।
दि॒वा॒क॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद् दुरि॒तानि॑ शु॒क्रः ॥३४॥
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒द् द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥३५॥
उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्।
पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यदवि॑न्द॒दत्त्रिः॑ ॥३६॥
दि॒वस्पृ॒ष्ठे धाव॑मानं सुप॒र्णमदि॑त्याः पु॒त्रं ना॒थका॑म॒ उप॑ यामि भी॒तः ।
स नः॑ सूर्य॒ प्र ति॑र दी॒र्घमायु॒र्मा रि॑षाम सुम॒तौ ते॑ स्याम ॥३७॥
स॒ह॒स्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम्।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॑ ॥३८॥
रोहि॑तः का॒लो अ॑भव॒द् रोहि॒तोऽग्रे॑ प्र॒जाप॑तिः ।
रोहि॑तो य॒ज्ञानां॒ मुखं॒ रोहि॑तः॒ स्व॑१राभ॑रत्॥३९॥
रोहि॑तो लो॒को अ॑भव॒द् रोहि॒तोऽत्य॑तप॒द् दिव॑म्।
रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत्॥४०॥
सर्वा॒ दिशः॒ सम॑चर॒द् रोहि॒तोऽधि॑पतिर्दि॒वः ।
दिवं॑ समु॒द्रमाद् भूमिं॒ सर्वं॑ भू॒तं वि र॑क्षति ॥४१॥
आ॒रोह॑न्छु॒क्रो बृ॑ह॒तीरत॑न्द्रो॒ द्वे रू॒पे कृ॑णुते॒ रोच॑मानः ।
चि॒त्रश्चि॑कि॒त्वान् म॑हि॒षो वात॑माया॒ याव॑तो लो॒कान॒भि यद् वि॒भाति॑ ॥४२॥
अ॒भ्य॑१न्यदे॑ति॒ पर्य॒न्यद॑स्यतेऽहोरा॒त्राभ्यां॑ महि॒षः कल्प॑मानः ।
सूर्यं॑ व॒यं रज॑सि क्षि॒यन्तं॑ गातु॒विदं॑ हवामहे॒ नाध॑मानाः ॥४३॥
पृ॒थि॒वी॒प्रो म॑हि॒षो नाध॑मानस्य गा॒तुरद॑ब्धचक्षुः॒ परि॒ विश्वं॑ ब॒भूव॑ ।
विश्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥४४॥
पर्य॑स्य महि॒मा पृ॑थि॒वीं स॑मु॒द्रं ज्योति॑षा वि॒भ्राज॒न् परि॒ द्याम॒न्तरि॑क्षम्।
सर्वं॑ सं॒पश्य॑न्त्सुवि॒दत्रो॒ यज॑त्र इ॒दं शृ॑णोतु॒ यद॒हं ब्रवी॑मि ॥४५॥
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म्।
य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥४६॥