SELECT KANDA

SELECT SUKTA OF KANDA 11

Atharvaveda Shaunaka Samhita – Kanda 11 Sukta 005

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

ब्रह्मचर्यम्।

१-२६ ब्रह्मा।ब्रह्मचारी। त्रिष्टुप्, १ पुरोऽतिजागता विराड् गर्भा, २ पञ्चपदा बृहतीगर्भा विराट् शक्वरी,
३ उरोबृहती, ६ शाक्वरगर्भा चतुष्पदा जगती, ७ विराड् गर्भा, ८ पुरोऽतिजागता विराड् जगती,
९ बृहतीगर्भा, १० भुरिक्, ११, १३ जगती, १२ शाक्वरगर्भा चतुष्पदा विराडतिजगती, १५ पुरस्ताज्ज्योतिः,
१४, १६-२२ अनुष्टुप्, २३ पुरोबार्हतातिजागतगर्भा, २५ एकावसानार्च्युष्णिक्, २६ मध्येज्योतिर ष्णिग्गर्भा।

ब्र॒ह्म॒चा॒रीष्णंश्च॑रति॒ रोद॑सी उ॒भे तस्मि॑न् दे॒वाः संम॑नसो भवन्ति ।
स दा॑धार पृथि॒वीं दिवं॑ च॒ स आ॑चा॒र्यं१ तप॑सा पिपर्ति ॥१॥
ब्र॒ह्म॒चा॒रिणं॑ पि॒तरो॑ देवज॒नाः पृथ॑ग् दे॒वा अ॑नु॒संय॑न्ति॒ सर्वे॑ ।
ग॒न्ध॒र्वा ए॑न॒मन्वा॑य॒न् त्रय॑स्त्रिंशत् त्रिश॒ताः ष॑ट्सह॒स्राः सर्वा॒न्त्स दे॒वांस्तप॑सा पिपर्ति ॥२॥
आ॒चा॒र्यऽ उप॒नय॑मानो ब्रह्मचा॒रिणं॑ कृणुते॒ गर्भ॑म॒न्तः ।
तं रात्री॑स्ति॒स्र उ॒दरे॑ बिभर्ति॒ तं जा॒तं द्रष्टु॑मभि॒संय॑न्ति दे॒वाः ॥३॥
इ॒यं स॒मित् पृ॑थि॒वी द्यौर्द्वितीयो॒तान्तरि॑क्षं स॒मिधा॑ पृणाति ।
ब्र॒ह्म॒चा॒री स॒मिधा॒ मेख॑लया॒ श्रमे॑ण लो॒कांस्तप॑सा पिपर्ति ॥४॥
पूर्वो॑ जा॒तो ब्रह्म॑णो ब्रह्मचा॒री घ॒र्मं वसा॑न॒स्तप॒सोद॑तिष्ठत्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम्॥५॥
ब्र॒ह्म॒चा॒र्येऽति स॒मिधा॒ समि॑द्धः कार्ष्णं॒ वसा॑नो दीक्षि॒तो दी॒र्घश्म॑श्रुः ।
स स॒द्य ए॑ति॒ पूर्व॑स्मा॒दुत्त॑रं समु॒द्रं लो॒कान्त्सं॒गृभ्य॒ मुहु॑रा॒चरि॑क्रत्॥६॥
ब्र॒ह्म॒चा॒री ज॒नय॒न् ब्रह्मा॒पो लो॒कं प्र॒जाप॑तिं परमे॒ष्ठिनं॑ वि॒राज॑म्।
गर्भो॑ भू॒त्वामृत॑स्य॒ योना॒विन्द्रो॑ ह भू॒त्वासु॑रांस्ततर्ह ॥७॥
आ॒चा॒र्यऽ स्ततक्ष॒ नभ॑सी उ॒भे इ॒मे उ॒र्वी ग॑म्भी॒रे पृ॑थि॒वीं दिवं॑ च ।
ते र॑क्षति॒ तप॑सा ब्रह्मचा॒री तस्मि॑न् देवाः संम॑नसो भवन्ति ॥८॥
इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च ।
ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥९॥
अ॒र्वाग॒न्यः प॒रो अ॒न्यो दि॒वस्पृ॒ष्ठाद् गुहा॑ नि॒धी निहि॑तौ॒ ब्राह्म॑णस्य ।
तौ र॑क्षति॒ तप॑सा ब्रह्मचा॒री तत् केव॑लं कृणुते॒ ब्रह्म॑ वि॒द्वान्॥१०॥
अ॒र्वाग॒न्य इ॒तो अ॒न्यः पृ॑थि॒व्या अ॒ग्नी स॒मेतो॒ नभ॑सी अन्त॒रमे।
तयोः॑ श्रयन्ते र॒श्मयोऽधि॑ दृ॒ढास्ताना ति॑ष्ठति॒ तप॑सा ब्रह्मचा॒री॥११॥
अ॒भि॒क्रन्द॑न् स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार ।
ब्र॒ह्म॒चा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥१२॥
अ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न् ब्रह्मचा॒र्य॑१प्सु स॒मिध॒मा द॑धाति ।
तासा॑म॒र्चींषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ॥१३॥
आ॒चा॒र्योऽ मृ॒त्युर्वरु॑णः॒ सोम॒ ओष॑धयः॒ पयः॑ ।
जी॒भूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्व॑१राभृ॑तम्॥१४॥
अ॒मा घृ॒तं कृ॑णुते॒ केव॑लमाचा॒र्यो भू॒त्वा वरु॑णो॒ यद्य॒दैच्छत् प्र॒जाप॑तौ ।
तद् ब्र॑ह्मचा॒री प्राय॑च्छत् स्वन् मि॒त्रो अध्या॒त्मनः॑ ॥१५॥
आ॒चा॒र्योऽ ब्रह्मचा॒री ब्र॑ह्मच॒री प्र॒जाप॑तिः ।
प्र॒जाप॑ति॒र्वि रा॑जति वि॒राडिन्द्रो॑ऽभवद् व॒शी॥१६॥
ब्र॒ह्म॒चर्ये॑ण॒ तप॑सा॒ राजा॑ रा॒ष्ट्रं वि र॑क्षति ।
आ॒चा॒र्योऽ ब्रह्म॒चर्ये॑ण ब्रह्मचा॒रिण॑मिच्छते ॥१७॥
ब्र॒ह्म॒चर्ये॑ण क॒न्या॒३ युवा॑नं विन्दते॒ पति॑म्।
अ॒न॒ड्वान् ब्र॑ह्म॒चर्ये॒णाश्वो॑ घा॒सं जि॑गीर्षति ॥१८॥
ब्र॒ह्म॒चर्ये॑ण॒ तप॑सा दे॒वा मृ॒त्युमपा॑घ्नत ।
इन्द्रो॑ ह ब्र॒ह्मचर्ये॑ण दे॒वेभ्यः॒ स्व॑१राभ॑रत्॥१९॥
ओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑ ।
सं॒व॒त्स॒रः स॒हर्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥२०॥
पार्थि॑वा दि॒व्याः प॒शव॑ आर॒ण्या ग्रा॒म्याश्च॒ ये।
अ॒प॒क्षाः प॒क्षिण॑श्च॒ ये ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥२१॥
पृथ॒क् सर्वे॑ प्राजाप॒त्याः प्रा॒णाना॒त्मसु॑ बिभ्रति ।
तान्त्सर्वा॒न् ब्रह्म॑ रक्षति ब्रह्मचा॒रिण्याभृ॑तम्॥२२॥
दे॒वाना॑मे॒तत् प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्।
तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मते॑न सा॒कम्॥२३॥
ब्र॒ह्म॒चा॒री ब्रह्म॒ भ्राज॑द् बिभर्ति॒ तस्मि॑न् दे॒वा अधि॒ विश्वे॑ स॒मोताः॑ ।
प्रा॒णा॒पा॒नौ ज॒नय॒न्नाद् व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम्॥२४॥
चक्षुः॒ श्रोत्रं॒ यशो॑ अ॒स्मासु॑ धे॒ह्यन्नं॒ रेतो॒ लोहि॑तमु॒दर॑म्।२५॥
तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत् त॒प्यमा॑नः समु॒द्रे।
स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥२६॥