Vajasaneyi Kanva Samhita Adhyaya 37

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 37

A
A+
“अथ सप्तत्रिंशोऽध्यायः।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि ॥१॥ १
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ॥२॥ २
देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥३॥ ३
देव्यो॑ वम्रियो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥॥४॥ ४
इय॒त्यग्रे॑ आसीर्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥५॥ ५
इन्द्रस्यौज॑ स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥६॥ ६
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥७॥ ७ (२०१६)
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥८॥ ८
अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥९॥ ९
ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥१०॥॥(१) १०
य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से ।
दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒स्पृश॑स्पाहि ।
अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि ॥१॥ ११
अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः ।
सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दा॒ आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः ।
विधृ॑तिरु॒परि॑ष्टा॒द् बृह॒स्पते॒राधि॑पत्य॒ ओजो॑ मे दा॒ विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि॒ मनो॒रश्वा॑सि ॥१२॥ १२
स्वाहा॑ म॒रुद्भिः॒ परि॑ श्रीयस्व । दि॒वः स॒स्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑ ॥३॥ (२) १३
गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पतिः॑ प्र॒जाना॑म् ।
सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ स सूर्ये॑ण रोचते ॥१॥ १४
सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा स सूर्ये॑णारोचिष्ट ।
स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा स सूर्ये॑णारूरुचत ॥२॥ १५
ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः ।
वाच॑मस्मे॒ नि य॑च्छ देवा॒युव॑म् ॥३॥ १६
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः ॥४॥ १७ (२०२६)
विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते ।
दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान्पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये।
मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् ।
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ॥५॥ १८
पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिसीः ।
त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धे॒ह्यरि॑ष्टा॒ह स॒ह प॑त्या भूयासम् ॥६॥ १९
अहः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
रात्रिः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ॥७॥(३) २० (२०२९)
॥इति शुक्लयजुःकाण्वसंहितायां सप्तत्रिंशोऽध्यायः॥३॥७॥”