SELECT KANDA
SELECT SUKTA OF KANDA 11
Atharvaveda Shaunaka Samhita – Kanda 11 Sukta 002
By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.
रुद्रः।
१-३१ अथर्वा। भव-शर्व रुद्राः। त्रिष्टुप्, १ परातिजागता विराड्जगती, २ अनुष्टुब्गर्भा पञ्चपदा पथ्याजगती, ३ चतुष्पदा स्वराडुष्णिक्, ४-५, ७, १३, १५-१६, २१ अनुष्टुप्, ६ आर्षी गायत्री, ८ महाबृहती, ९ आर्षी, १० पुरोकृती त्रिपदा विराट्, ११ पञ्पदा विराड् जगतीगर्भा शक्वरी, १२ भुरिक्, १४, १७-१९, २३, २६-२७ विराड्गायत्री, २० भुरिग्गायत्री, २२ विषमपादलक्ष्मा त्रिपदा महाबृहती, २४, २९ जगती, २५ पञ्पदातिशक्वरी, ३० चतुष्पदा उष्णिक्,३१ त्र्यवसाना विपरीतपाद लक्ष्मा षट् पदा (जगती)।
भवा॑शर्वौ मृ॒डतं॒ माभि या॑तं॒ भूत॑पती॒ पशु॑पती॒ नमो॑ वाम्।
प्रति॑हिता॒माय॑तां॒ मा वि स्रा॑ष्टं॒ मा नो॑ हिंसिष्टं द्वि॒पदो॒ मा चतु॑ष्पदः ॥१॥
शुने॑ क्रो॒ष्ट्रे मा शरी॑राणि॒ कर्त॑म॒लिक्ल॑वेभ्यो॒ गृध्रे॑भ्यो॒ ये च॑ कृ॒ष्णा अ॑वि॒ष्यवः॑ ।
मक्षि॑कास्ते पशुपते॒ वयां॑सि ते विघ॒से मा वि॑दन्त ॥२॥
क्रन्दा॑य ते प्रा॒णाय॒ याश्च॑ ते भव॒ रोप॑यः ।
नम॑स्ते रुद्र कृण्मः सहस्रा॒क्षाया॑मर्त्य ॥३॥
पु॒रस्ता॑त् ते नमः॑ कृण्म उत्त॒राद॑ध॒रादु॒त।
अ॒भी॒व॒र्गाद् दि॒वस्पर्य॒न्तरि॑क्षाय ते॒ नमः॑ ॥४॥
मुखा॑य ते पशुपते॒ यानि॒ चक्षूं॑षि ते भव ।
त्व॒चे रू॒पाय॑ सं॒दृशे॑ प्रती॒चीना॑य ते॒ नमः॑ ॥५॥
अङ्गे॑भ्यस्त उ॒दरा॑य जि॒ह्वाया॑ आ॒स्याऽय ते ।
द॒द्भ्यो ग॒न्धाय॑ ते॒ नमः॑ ॥६॥
अस्त्रा॒ नील॑शिखण्डेन सहस्रा॒क्षेण॑ वा॒जिना॑ ।
रु॒द्रेणा॑र्धकघा॒तिना॒ तेन॒ मा सम॑रामहि ॥७॥
स नो॑ भ॒वः परि॑ वृणक्तु वि॒श्वत॒ आप॑ इवा॒ग्निः परि॑ वृणक्तु नो भ॒वः ।
मा नो॒ऽभि मां॑स्त॒ नमो॑ अस्त्वस्मै ॥८॥
च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते ।
तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः ॥९॥
तव॒ चत॑स्रः प्र॒दिश॒स्तव॒ द्यौस्तव॑ पृथि॒वी तवे॒दमु॑ग्रो॒र्व॑१न्तरि॑क्षम्।
तवे॒दं सर्व॑मात्म॒न्वद् यत् प्रा॒णत् पृ॑थि॒वीमनु॑ ॥१०॥
उ॒रुः कोशो॑ वसु॒धान॒स्तवा॒यं यस्मि॑न्नि॒मा विश्वा॒ भुव॑नान्य॒न्तः ।
स नो॑ मृड पशुपते॒ नम॑स्ते प॒रः क्रो॒ष्टारो॑ अभि॒भाः श्वानः॑ प॒रो य॑न्त्वघ॒रुदो॑ विके॒श्यःऽ॥ ११॥
धनु॑र्बिभर्षि॒ हरि॑तं हिर॒ण्ययं॑ सहस्र॒घ्नि श॒तव॑धं शिखण्डिनम्।
रु॒द्रस्येषु॑श्चरति देवहे॒तिस्तस्यै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒३तः ॥१२॥
यो॒३भिया॑तो नि॒लय॑ते॒ त्वां रु॑द्र नि॒चिकी॑र्षति ।
प॒श्चाद॑नु॒प्रयु॑ङ्क्षे॒ तं वि॒द्धस्य॑ पद॒नीरि॑व ॥१३॥
भ॒वा॒रु॒द्रौ स॒युजा॑ संविदा॒नावु॒भावु॒ग्रौ च॑रतो वी॒र्याऽय ।
तभ्यां॒ नमो॑ यत॒मस्यां॑ दिशी३तः ॥१४॥
नम॑स्ते ऽस्त्वाय॒ते नमो॑ अस्तु पराय॒ते।
नम॑स्ते रुद्र॒ तिष्ठ॑त॒ आसी॑नायो॒त ते॒ नमः॑ ॥१५॥
नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑ ।
भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥१६॥
स॒ह॒स्रा॒क्षम॑तिप॒श्यं पु॒रस्ता॑द् रु॒द्रमस्य॑न्तं बहु॒धा वि॑प॒श्चित॑म्।
मोपा॑राम जि॒ह्वयेय॑मानम्॥१७॥
श्या॒वाश्वं॑ कृ॒ष्णमसि॑तं मृ॒णन्तं॑ भी॒मं रथं॑ के॒शिनः॑ पा॒दय॑न्तम्।
पूर्वे॒ प्रती॑मो॒ नमो॑ अस्त्वस्मै ॥१८॥
मा नो॒ऽभि स्रा॑ म॒त्यं देवहे॒तिं मा नः॑ क्रुधः पशुपते॒ नम॑स्ते ।
अ॒न्यत्रा॒स्मद् दि॒व्यां शाखां॒ वि धू॑नु ॥१९॥
मा नो॑ हिंसी॒रधि॑ नो ब्रूहि॒ परि॑ णो वृङ्ग्धि॒ मा क्रु॑धः ।
मा त्वया॒ सम॑रामहि ॥२०॥
मा नो॒ गोषु॒ पुरु॑षेषु॒ मा गृ॑धो नो अजा॒विषु॑ ।
अ॒न्यत्रो॑ग्र॒ वि व॑र्तय॒ पिया॑रूणां प्र॒जां ज॑हि ॥२१॥
यस्य॑ त॒क्मा कासि॑का हे॒तिरेक॒मश्व॑स्येव॒ वृष॑णः॒ क्रन्द॒ एति॑ ।
अ॒भि॒पू॒र्वं नि॒र्णय॑ते॒ नमो॑ अस्त्वस्मै ॥२२॥
यो॒३न्तरि॑क्षे॒ तिष्ठ॑ति॒ विष्ट॑भि॒तोऽय॑ज्वनः प्रमृ॒णन् दे॑वपी॒यून्।
तस्मै॒ नमो॑ द॒शभिः॒ शक्व॑रीभिः ॥२३॥
तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि ।
तव॑ य॒क्षं प॑शुपते अ॒प्स्व॑१न्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे॥२४॥
शि॒शु॒मारा॑ अजग॒राः पु॑री॒कया॑ ज॒षा मत्स्या॑ रज॒सा येभ्यो॒ अस्य॑सि ।
न ते॑ दू॒रं न प॑रि॒ष्ठास्ति॑ ते भव स॒द्यः सर्वा॒न् परि॑
पश्यसि॒ भूमिं॒ पूर्व॑स्माद्धं॒स्युत्त॑रस्मिन्समु॒द्रे॥२५॥
मा नो॑ रुद्र त॒क्मना॒ मा वि॒षेण॒ मा नः॒ सं स्रा॑ दि॒व्येना॒ग्निना॑ ।
अ॒न्यत्रा॒स्मद् वि॒द्युतं॑ पातयै॒ताम्॥२६॥
भ॒वो दि॒वो भ॒व ई॑शे पृथि॒व्या भ॒व आ प॑प्र उ॒र्व॑न्तरि॑क्षम्।
तस्मै॒ नमो॑ यत॒मस्यां॑ दि॒शी॒३तः ॥२७॥
भव॑ राज॒न् यज॑मानाय मृड पशू॒नां हि प॑शु॒पति॑र्ब॒भूथ॑ ।
यः श्र॒द्दधा॑ति॒ सन्ति॑ दे॒वा इति॒ चतु॑ष्पदे द्वि॒पदे॑ऽस्य मृड ॥२८॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा नो॒ वह॑न्तमु॒त मा नो॑ वक्ष्य॒तः ।
मा नो॑ हिंसीः पि॒तरं॑ मा॒तरं॑ च॒ स्वां त॒न्वंऽ रुद्र॒ मा री॑रिषो नः ॥२९॥
रु॒द्रस्यै॑लबका॒रेभ्यो॑ऽसंसूक्तगि॒लेभ्यः॑ ।
इ॒दं म॒हास्ये॑भ्यः॒ श्वभ्यो॑ अकरं॒ नमः॑ ॥३०॥
नम॑स्ते घो॒षिणी॑भ्यो॒ नम॑स्ते के॒शिनी॑भ्यः ।
नमो॒ नम॑स्कृताभ्यो॒ नमः॑ संभुञ्ज॒तीभ्यः॑ ।
नम॑स्ते देव॒ सेना॑भ्यः स्व॒स्ति नो॒ अभ॑यं च नः ॥३१॥