Vajasaneyi Kanva Samhita Adhyaya 25

Shukla Yajurveda – Vajasaneyi Kanva Samhita – Adhyaya 25

A
A+
“अथ पञ्चविंशोऽध्यायः ।
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ १
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनिः॒ सूर्य॑स्ते महि॒मा ।
यस्तेऽह॑न्त्संवत्स॒रे म॑हि॒मा सं॑ब॒भूव॒ यस्ते॑ वा॒या अ॒न्तरि॑क्षे महि॒मा सं॑ब॒भूव॑ ।
यस्ते॑ दि॒वि सूर्ये॑ महि॒मा सं॑ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ दे॒वेभ्यः॑ ॥२॥ (१) २
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥१॥ ३
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॑श्च॒न्द्रमास्ते॑ महि॒मा ।
यस्ते॒ रात्रौ॑ संवत्स॒रे म॑हि॒मा सं॑ब॒भूव॒ यस्ते॑ पृथि॒व्याम॒ग्नौ म॑हि॒मा सं॑ब॒भूव॑ ।
यस्ते॒ नक्ष॑त्रेषु च॒न्द्रम॑सि महि॒मा सं॑ब॒भूव॒ तस्मै॑ ते महि॒म्ने प्र॒जाप॑तये दे॒वेभ्यः॒ स्वाहा॑ ॥२॥ (२) ४
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥१॥ ५
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥२॥ ६
यद्वातो॑ अ॒पो अ॑गनीगन्प्रि॒यामिन्द्र॑स्य त॒न्व॑म् । ए॒त स्तो॑तर॒नेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि नः ॥३॥ ७
वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
आ॒दि॒त्यास्त्वा॑ञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा ॥४॥ ८
भूर्भुवः॒ स्व॒र्लाजी३ञ्छा॒ची३न्यव्ये॒ गव्ये॑ । ए॒तदन्न॑मत्त देवा ए॒तदन्न॑मद्धि प्रजापते ॥५॥ ९
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ ।
कि स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ॥६॥ १०
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑ ।
अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥७॥ ११
का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि स्वि॑दासीद् बृ॒हद्वयः॑ ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥८॥ १२
द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑ ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥९॥ (३) १३
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागैः॑ । न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑ ॥१॥ १४
ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन् । ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ । नमो॒ऽग्नये॑ ॥२॥ १५
सशि॑तो र॒श्मिना॒ रथः॒ सशि॑तो र॒श्मिना॒ हयः॑ । सशि॑तो अ॒प्स्व॑प्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः ॥३॥ १६
स्व॒यं वा॑जिस्त॒न्वं॑ कल्पयस्व स्व॒यं य॑जस्व स्व॒यं जु॑षस्व । म॒हि॒मा ते॒ऽन्येन॒ न सं॒नशे॑ ॥४॥ १७
न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ ।
यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ॥५॥ १८ (१४७९)
अ॒ग्निः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॑न्न॒ग्निः ।
स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
वा॒युः प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॑न्वा॒युः ।
स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ।
सूर्यः॑ प॒शुरा॑सी॒त्तेना॑यजन्त॒ स ए॒तँ लो॒कम॑जय॒द्यस्मि॒न्त्सूर्यः॑ ।
स ते॑ लो॒को भ॑विष्यति॒ तं जे॑ष्यसि॒ पिबै॒ता अ॒पः ॥६॥ (४) १९
प्रा॒णाय॒ स्वाहा॑पा॒नाय॒ स्वाहा॑ व्या॒नाय॒ स्वाहा॑ । अम्बे॒ अम्बि॒केऽम्बा॑लिके॒ न मा॑ नयति॒ कश्च॒न ।
सस॑स्त्यश्व॒कः सुभ॑द्रिकां काम्पीलवा॒सिनी॑म् ॥१॥ २०
ग॒णानां॑ त्वा ग॒णप॑ति हवामहे प्रि॒याणां॑ त्वा प्रि॒यप॑ति हवामहे ।
नि॒धीनां॑ त्वा निधि॒पति हवामहे वसो मम ॥२॥ २१
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् । ता उभौ च॒तुरः॑ प॒दः स॒म्प्रसा॑रयाव ।
स्व॒र्गे लो॒के प्रोर्ण्वा॑थाँ॒ वृषा॑ वा॒जी रे॑तो॒धा रेतो॑ दधातु ॥३॥ (५) २२
उत्स॑क्थ्या॒ अव॑ गु॒दं धे॑हि॒ सम॒ञ्जिं चा॑रया वृषन् । य स्त्री॒णां जी॑व॒भोज॑नः ॥१॥ २३
य॒कास॒कौ श॑कुन्ति॒काहल॒गिति॒ वञ्च॑ति । आह॑न्ति ग॒भे पसो॒ निग॑ल्गलीति॒ धार॑का ॥२॥ २४
य॒कोऽस॒कौ श॑कुन्त॒क आ॒हल॒गिति॒ वञ्च॑ति ।
विव॑क्षत इव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः ॥३॥ २५
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ वृ॒क्षस्य॑ रोहतः ।
प्रति॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तसयत् ॥४॥ २६
मा॒ता च॑ ते पि॒ता च॒ तेऽग्रे॑ वृ॒क्षस्य॑ क्रीळतः ।
विव॑क्षत इव ते॒ मुखं॒ ब्रह्म॒न्मा त्वं व॑दो ब॒हु ॥५॥ २७
ऊ॒र्ध्वमे॑ना॒मुच्छ्रा॑पय गि॒रौ भा॒र हर॑न्निव ।
अथा॑स्यै॒ मध्य॑मेधता शी॒ते वाते॑ पु॒नन्नि॑व ॥६॥ २८
ऊ॒र्ध्वमे॑न॒मुच्छ्र॑याद्गि॒रौ भा॒र हर॑न्निव ।
अथा॑स्य॒ मध्य॑मेजतु शी॒ते वाते॑ पु॒नन्नि॑व ॥७॥ २९
यद॑स्या अ॒हु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत् ।
मु॒ष्का इद॑स्या एजतो गोश॒फे श॑कु॒ला इ॑व ॥८॥ ३० (१४९१)
यद्दे॒वासो॑ ल॒लाम॑गुं॒ प्र वि॑ष्टी॒मिन॒मावि॑षुः ।
स॒क्थ्ना दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा ॥९॥ ३१
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते ।
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥१०॥॥ ३२
यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं ब॒हु मन्य॑ते ।
शू॒द्रो यदर्या॑यै जा॒रो न पोष॒मनु॑ मन्यते ॥११॥॥ ३३
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयू॑षि तारिषत् ॥१२॥ (६) ३४
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुप्प॒ङ्क्त्या स॒ह ।
बृ॒ह॒त्यु॒ष्णिहा॑ क॒कुप्सू॒चीभिः॑ शम्यन्तु त्वा ॥१॥ ३५
द्विप॑दा॒ याश्चतु॑ष्पदास्त्रि॒पदा॒ याश्च॒ षट्प॑दाः ।
विच्छ॑न्दा॒ याश्च॒ सच्छ॑न्दाः सू॒चीभिः॑ शम्यन्तु त्वा ॥२॥ ३६
म॒हाना॑म्न्यो रे॒वत्यो॒ विश्वा॒ आशाः॑ प्र॒भूव॑रीः ।
मै॑घीर्वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥३॥ ३७
नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑ ।
दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा ॥४॥ ३८
र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः ।
अश्व॑स्य वा॒जिन॑स्त्व॒चि सिमाः॑ शम्यन्तु॒ शम्य॑न्तीः॥५॥ ३९
कु॒विद॒ङ्ग यव॑मन्तो व॒यञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ न ज॒ग्मुः॥६॥ (७) ४०
कस्त्वा छ्य॑ति॒ कस्त्वा॒ विशा॑स्ति॒ कस्ते॒ गात्रा॑णि शम्यति । क उ॑ ते शमि॒ता क॒विः ॥१॥ ४१
ऋ॒तव॑स्त ऋतु॒था पर्व॑ शमि॒तारो॒ वि शा॑सतु ।
सं॒व॒त्स॒रस्य॒ तेज॑सा श॒मीभिः॑ शम्यन्तु त्वा ॥२॥ ४२
अ॒र्ध॒मा॒साः परू॑षि ते॒ मासा॒ आ छ्य॑न्तु शम्य॑न्तः ।
अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्ट सूदयन्तु ते ॥३॥ ४३
दैव्या॑ अध्व॒र्यव॒स्त्वा छ्य॑न्तु॒ वि च॑ शासतु ।
गात्रा॑णि पर्व॒शस्ते॒ सिमाः॑ कृण्वन्तु॒ शम्य॑न्तीः ॥४॥ ४४ (१५०५)
द्यौस्ते॑ पृथि॒व्य॒न्तरि॑क्षं वा॒युश्छि॒द्रं पृ॑णातु ते ।
सूय॑स्ते॒ नक्ष॑त्रैः स॒ह लो॒कं कृ॑णोतु साधु॒या ॥५॥ ४५
शं ते॒ परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः ।
शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शम्व॑स्तु त॒न्वै॒ तव॑ ॥६॥ (८) ४६
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ ।
कि स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत् ॥१॥ ४७
सूर्य॑ एका॒की च॑रति च॒न्द्रमा॑ जायते॒ पुनः॑ ।
अ॒ग्निर्हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥२॥ ४८
कि स्वि॒त्सूर्य॑समं॒ ज्योतिः॒ कि स॑मु॒द्रस॑म॒ सरः॑ ।
कि स्वि॑त्पृथिव्यै॒ वर्षी॑यः कस्य॒ मात्रा॒ न वि॑द्यते ॥३॥ ४९
ब्रह्म॒ सूर्य॑समं॒ ज्योति॒र्द्यौः स॑मु॒द्रस॑म॒ सरः॑ ।
इन्द्रः॑ पृथिव्यै॒ वर्षी॑या॒न् गोस्तु मात्रा॒ न वि॑द्यते ॥४॥ ५०
पृ॒च्छामि॑ त्वा चि॒तये॑ देवसख॒ यदि॒ त्वमत्र॒ मन॑सा ज॒गन्थ॑ ।
येषु॒ विष्णु॑स्त्रि॒षु प॒देष्वेष्ट॒स्तेषु॒ विश्वं॒ भुव॑न॒मा वि॑वेशा३ ॥५॥ ५१
अपि॒ तेषु॑ त्रि॒षु प॒देष्व॑स्मि॒ येषु॒ विश्वं॒ भुव॑नमा वि॒वेश॑ ।
स॒द्यः पर्ये॑मि पृथि॒वीमु॒त द्यामेके॒नाङ्गे॑न दि॒वो अ॒स्य पृ॒ष्ठम् ॥६॥ ५२
केष्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ कान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि ।
ए॒तद् ब्र॑ह्म॒न्नुप॑ वल्हामसि त्वा॒ कि स्वि॑न्नः॒ प्रति॑ वोचा॒स्यत्र॑ ॥७॥ ५३
प॒ञ्चस्व॒न्तः पुरु॑ष॒ आ वि॑वेश॒ तान्य॒न्तः पुरु॑षे॒ अर्पि॑तानि ।
ए॒तत्त्वात्र॑ प्रतिमन्वा॒नो अ॑स्मि॒ न मा॒यया॑ भव॒स्युत्त॑रो॒ मत् ॥८॥ (९) ५४
का स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ कि स्वि॑दासीद् बृ॒हद्वयः॑ ।
का स्वि॑दासीत्पिलिप्पि॒ला का स्वि॑दासीत्पिशङ्गि॒ला ॥१॥ ५५
द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑ ।
अवि॑रासीत्पिलिप्पि॒ला रात्रि॑रासीत्पिशङ्गि॒ला ॥२॥ ५६
क ई॑मरे पिशङ्गि॒ला क ईं॑ कुरु पिशङ्गि॒ला ।
क ई॑मा॒ स्कन्द॑मर्षति॒ क ईं॒ पन्थां॒ वि स॑र्पति ॥३॥ ५७ (१५१८)
अ॒जारे॑ पिशङ्गि॒ला श्वा॒वित्कु॑रु पिशङ्गि॒ला ।
श॒श आ॒स्कन्द॑मर्ष॒त्यहिः॒ पन्थां॒ वि स॑र्पति ॥४॥ ५८
कत्य॑स्य वि॒ष्ठाः कत्य॒क्षरा॑णि॒ कति॒ होमा॑सः कति॒धा समि॑द्धः ।
य॒ज्ञस्य॑ त्वा वि॒दथा॑ पृच्छ॒मत्र॒ कति॒ होता॑र ऋतु॒शो य॑जन्ति ॥५॥ ५९
षळ॑स्य वि॒ष्ठाः श॒तम॒क्षरा॑ण्यशी॒तिर्होमाः॑ स॒मिधो॑ ह ति॒स्रः ।
य॒ज्ञस्य॑ ते वि॒दथा॒ प्र ब्र॑वीमि स॒प्त होता॑र ऋतु॒शो य॑जन्ति ॥६॥ ६०
को अ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः ॥७॥ ६१
वेदा॒हम॒स्य भुव॑नस्य॒ नाभिं॒ वेद॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
वेद॒ सूर्य॑स्य बृह॒तो ज॒नित्र॒मथो॑ वेद च॒न्द्रम॑सं यतो॒जाः ॥८॥ ६२
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ ।
पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो॑म ॥९॥ ६३
इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ ।
अ॒य सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो॑म ॥१०॥॥ ६४
सु॒भूः स्व॑य॒म्भूः प्र॑थ॒मो॒ऽन्तर्म॑ह॒त्य॑र्ण॒वे ।
द॒धे ह॒ गर्भ॑मृ॒त्वियं॒ यतो॑ जा॒तः प्र॒जाप॑तिः ॥११॥॥ ६५
होता॑ यक्षत्प्र॒जाप॑ति॒ सोम॑स्य महि॒म्नः । जु॒षतां॒ पिब॑तु॒ सोम॒ होत॒र्यज॑ ॥१२॥ ६६
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ रू॒पाणि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम् ॥१३॥ (१०) ६७ (१५२८)
॥इति शुक्लयजुःकाण्वसंहितायां पञ्चविंशोऽध्यायः॥२५॥”