Isha Upanishad By Pt Parashurama Ghanapathi
A
A
ईशवसयपनषद
ॐ परणमद परणमद परणत परणमदचयत
परणसय परणमदय परणमववशषयत
ॐ शनत शनत शनत
ॐ ईश वसयमद सरव यतक च जगतय जगत
तन तयकतन भञजथ म गध कसय सवदधनम १
करवननवह करमण जजवषचछत सम
एव तवय ननयथतऽसत न करम लपयत नर २
असरय नम त लक अनधन तमसवत
तसत परतयभगचछनत य क चतमहन जन ३
अनजदक मनस जवय ननददव आपनवनपरवमरशत
तदधवतऽनयनतयत तषठततसमननप मतरशव दधत ४
तदजत तननजत तददर तदवनतक
तदनतरसय सरवसय तद सरवसयसय बहयत ५
यसत सरवण भतनयतमननवनपशयत
सरवभतष चतमन तत न व जगपसत ६
यसमनतसरवण भतनयतमवभदवजनत
ततर क मह क शक एकतवमनपशयत ७
स परयगचछकरमकयमवरणमसनवरशदधमपपवदधम
कवरमनष परभ सवयभरयथतथयतऽरथनवयद धचछशवतभय समभय ८
अनध तम पर वशनत यऽवदयमपसत
तत भय इव त तम य उ वदयय रत ९
अनयदवहरवदययनयदहरवदयय
इत शशरम धरण य नसतदवचचकषर १०
वदय चवदय च यसतदवदभय सह
अवदयय मतय तरतव वदययमतमशनत ११
अनध तम परवशनत यऽसभतमपसत
तत भय इव त तम य उ सभतय रत १२
अनयदवह सभवदनयदहरसभवत
इत शशरम धरण य नसतदवचचकषर १३
सभत च वनश च यसतदवदभय सह
वनशन मतय तरतव सभतयमतमशनत १४
हरणमयन पतरण सतयसयपहत मखम
तततव पषननपवण सतयधरमय दषटय १५
पषननकरष यम सरय परजपतय वयह रशमनसमह तज
यतत रप कलयणतम ततत पशयम
यऽसवस परष सऽहमसम १६
वयरनलममतमथद भसमनत शररम
ॐ करत समर कत समर करत समर कत समर १७
अगन नय सपथ रय असमनवशवन दव वयनन वदवन
ययधयसमजजहरणमन भयषठ त नम उकत वधम १८
इत ईशवसयपनषद
ॐ परणमद परणमद परणत परणमदचयत
परणसय परणमदय परणमववशषयत
ॐ शनत शनत शनत
Samhita
Shukla Yajurveda
Vajasaneyi Samhita Madhyandina
Vajasaneyi Samhita Kanva
Brahmanas
Shatapatha Brahmana Madhyandina
Shatapatha Brahmana Kanva
Aranyakas
Brihadaranyaka Madhyandina
Brihadaranyaka Kanva
Ishavasyopanishad of Vajasneyi Kanva Samhita
१३ नोधा गौतमः। इन्द्रः।त्रिष्टुप्।
॥ ईशावास्योपनिषद् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ ई॒शा वा॒स्य॑मि॒द सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒त समाः॑ ।
ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२॥
अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।
तास्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा॑त्म॒हनो॒ जनाः॑ ॥३॥
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो॒ नैन॑द्दे॒वा आ॑प्नुव॒न्पूर्व॒मर्श॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ॥४॥
तदे॑जति॒ तन्नै॑जति॒ तद्दू॒रे तद्व॑न्ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥५॥
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते ॥६॥
यस्मि॒न्त्सर्वा॑णि भू॒तान्या॒त्मैवाभू॑द्विजान॒तः ।
तत्र॒ को मोहः॒ कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥७॥
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रशु॒द्धमपा॑पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या॑थातथ्य॒तोऽर्था॒न्व्य॑द धाच्छाश्व॒तीभ्यः॒ समा॑भ्यः ॥८॥
अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ र॒ताः ॥९॥
अ॒न्यदे॒वाहुर्वि॒द्यया॒न्यदा॑हु॒रवि॑द्याया ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१०॥॥
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते ॥११॥॥
अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू॑त्या र॒ताः ॥१२॥
अ॒न्यदे॒वाहुः सं॑भ॒वाद॒न्यदा॑हु॒रसं॑भवात् ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१३॥
संभू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू॑त्या॒मृत॑मश्नुते ॥१४॥
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् ।
तत्त्वं पू॑ष॒न्नपावृ॑णु स॒त्यध॑र्माय दृ॒ष्टये॑ ॥१५॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह तेजो॒
यत्ते॑ रू॒पं कल्या॑णतमं॒ तत्ते॑ पश्यामि
यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि ॥१६॥
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ शरी॑रम् ।
ॐ क्रतो॒ स्मर॑ कृ॒त स्म॑र॒ क्रतो॒ स्मर॑ कृ॒त स्म॑र ॥१७॥
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उ॒क्तिं विधेम ॥१८॥
॥ इति ईशावास्योपनिषद् ॥

॥अथ ईशावास्योपनिषद्॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शान्तिः शान्तिः शान्तिः॥
ई॒शा वा॒स्य॑मि॒दसर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म् ॥१॥
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तसमाः॑ ।
ए॒वं त्वयि॒ नान्यथे॒तो॑ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥२
॥ अ॒सु॒र्या॒ नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।

स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒र शु॒द्धमपा॑पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या॑थातथ्य॒तोऽर्था॒न्व्य॑द धाच्छाश्व॒ती भ्यः॒ समा॑भ्यः ॥८॥
अ॒न्धं तमः॒ प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ र॒ताः ॥९॥
अ॒न्यदे॒वाहुर्वि॒द्यया॒न्यदा॑हु॒रवि॑द्याया ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥१०॥॥
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒मृत॑मश्नुते ॥११॥॥
अ॒न्धं तमः॒ प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू॑त्यार॒ताः ॥१२॥

तेजो॒ यत्ते॑ रू॒पे कल्या॑णतमं॒ तत्ते॑ पश्यामि ।
यो॒ऽसाव॒सौ पुरु॑षः॒ सो॒ऽहम॑स्मि ॥१६॥
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒शरी॑रम् ।
ओम्३ क्रतो॒ स्मर॑ कृ॒तस्म॑र॒ क्रतो॒ स्मर॑ कृ॒तस्म॑र ॥१७॥

Ishavasyopanishad (Madhyandina)
EDITED BY DR. SACHICHIDANANDA PATHAK, U.P. SANSKRIT SANSTHAN, LUCKNOW, INDIA
अथ चत्वारिंशोऽध्यायः
ई॒शा वा॒स्य॒मि॒दᳪ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒: कस्य॑ स्वि॒द्धन॑म् ॥ १ ॥
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तᳪ समा॑: ।
ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ॥ २ ॥
अ॒सु॒र्या नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।
ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जना॑: ॥ ३ ॥
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो नैन॑द्दे॒वा आ॑प्नुव॒न् पूर्व॒मर्श॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ॥ ४ ॥
तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒॒रे तद्व॑न्ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ ५ ॥
यस्तु सर्वा॑णि भू॒तान्या॒त्मन्ने॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि चि॑कित्सति ॥ ६ ॥
यस्मि॒न्त्सर्वा॑णि भू॒तान्यात्मै॒वाभू॑द्विजान॒तः ।
तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥ ७ ॥
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रᳪ शु॒द्धमपा॑पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॒दधाच्छाश्व॒तीभ्य॒: समा॑भ्यः ॥ ८ ॥
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू॑त्याᳪ र॒ताः ॥ ९ ॥
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात् ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १० ॥
सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते ॥ ११ ॥
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ᳪ र॒ताः ॥ १२ ॥
अ॒न्यदे॒वाहुर्वि॒द्याया॑ अ॒न्यदा॑हु॒रवि॑द्यायाः ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १३ ॥
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते ॥ १४ ॥
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ᳪ शरी॑रम् ।
ओ३म् क्रतो॑ स्मर । क्लि॒बे स्म॑र । कृ॒तᳪ स्म॑र ॥ १५ ॥
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भुयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥ १६ ॥
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । यो॒ऽसावा॑दि॒त्ये पुरु॑ष॒: सोऽसाव॒हम् ।
ओ३म् खं ब्रह्म॑ ॥ १७ ॥