Rigveda – Shakala Samhita – Mandala 01 Sukta 150

A
A+
३ दीर्घतमा औचथ्यः। अग्निः। उष्णिक्।
पु॒रु त्वा॑ दा॒श्वान् वो॑चे॒ ऽरिर॑ग्ने॒ तव॑ स्वि॒दा । तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥१॥
व्य॑नि॒नस्य॑ ध॒निन॑: प्रहो॒षे चि॒दर॑रुषः । क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥२॥
स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि । प्रप्रेत् ते॑ अग्ने व॒नुष॑: स्याम ॥३॥