Rigveda – Shakala Samhita – Mandala 03 Sukta 031

A
A+
२२ कुशिक ऐषीरथिः, गाथिनो विश्वामित्रो वा। इन्द्रः। त्रिष्टुप्।
शास॒द् वह्नि॑र्दुहि॒तुर्न॒प्त्यं॑ गाद् वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् ।
पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन् त्सं श॒ग्म्ये॑न॒ मन॑सा दध॒न्वे ॥१॥
न जा॒मये॒ तान्वो॑ रि॒क्थमा॑रैक् च॒कार॒ गर्भं॑ सनि॒तुर्नि॒धान॑म् ।
यदी॑ मा॒तरो॑ ज॒नय॑न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो॑र॒न्य ऋ॒न्धन् ॥२॥
अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३ रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे॑ ।
म॒हान् गर्भो॒ मह्या जा॒तमे॑षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ॥३॥
अ॒भि जैत्री॑रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् ।
तं जा॑न॒तीः प्रत्युदा॑यन्नु॒षास॒: पति॒र्गवा॑मभव॒देक॒ इन्द्र॑: ॥४॥
वी॒ळौ स॒तीर॒भि धीरा॑ अतृन्दन् प्रा॒चाहि॑न्व॒न् मन॑सा स॒प्त विप्रा॑: ।
विश्वा॑मविन्दन् प॒थ्या॑मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ॥५॥
वि॒दद् यदी॑ स॒रमा॑ रु॒ग्णमद्रे॒र्महि॒ पाथ॑: पू॒र्व्यं स॒ध्र्य॑क्कः ।
अग्रं॑ नयत् सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती गा॑त् ॥६॥
अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू॑दयत् सु॒कृते॒ गर्भ॒मद्रि॑: ।
स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा॑भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ॥७॥
स॒तःस॑तः प्रति॒मानं॑ पुरो॒भूर्विश्वा॑ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण॑म् ।
प्र णो॑ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न् त्सखा॒ सखीँ॑रमुञ्च॒न्निर॑व॒द्यात् ॥८॥
नि ग॑व्य॒ता मन॑सा सेदुर॒र्कैः कृ॑ण्वा॒नासो॑ अमृत॒त्वाय॑ गा॒तुम् ।
इ॒दं चि॒न्नु सद॑नं॒ भूर्ये॑षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ॥९॥
स॒म्पश्य॑माना अमदन्न॒भि स्वं पय॑: प्र॒त्नस्य॒ रेत॑सो॒ दुघा॑नाः ।
वि रोद॑सी अतप॒द् घोष॑ एषां जा॒ते निः॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ॥१०॥॥
स जा॒तेभि॑र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया॑ असृज॒दिन्द्रो॑ अ॒र्कैः ।
उ॒रू॒च्य॑स्मै घृ॒तव॒द् भर॑न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ॥११॥॥
पि॒त्रे चि॑च्चक्रु॒: सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी॑मत् सु॒कृतो॒ वि हि ख्यन् ।
वि॒ष्क॒भ्नन्त॒: स्कम्भ॑नेना॒ जनि॑त्री॒ आसी॑ना ऊ॒र्ध्वं र॑भ॒सं वि मि॑न्वन् ॥१२॥
म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात् स॑द्यो॒वृधं॑ वि॒भ्वं१ रोद॑स्योः ।
गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥१३॥
मह्या ते॑ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो॑ यन्ति पू॒र्वीः ।
महि॑ स्तो॒त्रमव॒ आग॑न्म सू॒रेर॒स्माकं॒ सु म॑घवन् बोधि गो॒पाः ॥१४॥
महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित् सखि॑भ्यश्च॒रथं॒ समै॑रत् ।
इन्द्रो॒ नृभि॑रजन॒द् दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥१५॥
अ॒पश्चि॑दे॒ष वि॒भ्वो॒३ दमू॑ना॒: प्र स॒ध्रीची॑रसृजद् वि॒श्वश्च॑न्द्राः ।
मध्व॑: पुना॒नाः क॒विभि॑: प॒वित्रै॒र्द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ॥१६॥
अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे ।
परि॒ यत् ते॑ महि॒मानं॑ वृ॒जध्यै॒ सखा॑य इन्द्र॒ काम्या॑ ऋजि॒प्याः ॥१७॥
पति॑र्भव वृत्रहन् त्सू॒नृता॑नां गि॒रां वि॒श्वायु॑र्वृष॒भो व॑यो॒धाः ।
आ नो॑ गहि स॒ख्येभि॑: शि॒वेभि॑र्म॒हान् म॒हीभि॑रू॒तिभि॑: सर॒ण्यन् ॥१८॥
तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन् नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् ।
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वी॒: स्व॑श्च नो मघवन् त्सा॒तये॑ धाः ॥१९॥
मिह॑: पाव॒काः प्रत॑ता अभूवन् त्स्व॒स्ति न॑: पिपृहि पा॒रमा॑साम् ।
इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः ॥२०॥॥
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् ।
प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥२१॥॥
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भ भरे॒ नृत॑मं॒ वाज॑सातौ ।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥२२॥॥