Rigveda – Shakala Samhita – Mandala 05 Sukta 002

A
A+
१२ कुमार आत्रेयः, वृशो वा जानः, उभौ वा, २, ९ वृशो जानः। अग्निः। त्रिष्टुप्, १२ शक्वरी।
कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे ।
अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥१॥
कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान ।
पू॒र्वीर्हि गर्भ॑: श॒रदो॑ व॒वर्धाऽप॑श्यं जा॒तं यदसू॑त मा॒ता ॥२॥
हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात् क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम् ।
द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त् किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥३॥
क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद् यू॒थं न पु॒रु शोभ॑मानम् ।
न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद् यु॑व॒तयो॑ भवन्ति ॥४॥
के मे॑ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ ।
य ईं॑ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥५॥
व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥६॥
शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द् यूपा॑दमुञ्चो॒ अश॑मिष्ट॒ हि षः ।
ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न् होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥७॥
हृ॒णी॒यमा॑नो॒ अप॒ हि मदैये॒: प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच ।
इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥८॥
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा ।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवा॒: शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥९॥
उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ ।
मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥१०॥
ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीर॒: स्वपा॑ अतक्षम् ।
यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्या॒: स्व॑र्वतीर॒प ए॑ना जयेम ॥११॥
तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१र्यः सम॑जाति॒ वेद॑: ।
इती॒मम॒ग्निम॒मृता॑ अवोचन् ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥१२॥