SELECT KANDA

SELECT SUKTA OF KANDA 19

Atharvaveda Shaunaka Samhita – Kanda 19 Sukta 002

By Dr. Sachchidanand Pathak, U.P. Sanskrit Sansthan, Lucknow, India.

A
A+

आपः।

१-५ सिन्धुद्वीपः। आपः। अनुष्टुप्।

शं त॒ आपो॑ हैमव॒तीः शमु॑ ते सन्तू॒त्स्याः ।
शं ते॑ सनि॒ष्यदा॒ आपः॒ शमु॑ ते सन्तु व॒र्ष्याः ॥१॥
शं त॒ आपो॑ धन्व॒न्याः॒३ शं ते॑ सन्त्वनू॒प्याः ।
शं ते॑ खनि॒त्रिमा॒ आपः॒ शं याः कु॒म्भेभि॒राभृ॑ताः ॥२॥
अ॒न॒भ्रयः॒ खन॑माना॒ विप्रा॑ गम्भी॒रे अ॒पसः॑ ।
भि॒षग्भ्यो॑ भि॒षक्त॑रा॒ आपो॒ अच्छा॑ वदामसि ॥३॥
अ॒पामह॑ दि॒व्याऽनाम॒पां स्रो॑त॒स्याऽनाम्।
अ॒पामह॑ प्र॒णेज॒नेऽश्वा॑ भवथ वा॒जिनः॑ ॥४॥
ता अ॒पः शि॒वा अ॒पोऽय॑क्ष्मं॒कर॑णीर॒पः ।
यथै॒व तृ॑प्यते॒ मय॒स्तास्त॒ आ द॑त्त भेष॒जीः ॥५॥